________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ९२८ ॥
उद्देशकः ४
नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥ १ ॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धाषत्याक्रमि- ७ लोक.वि. २ तुमसौ, पुरोऽपराहे निजच्छायाम् ॥ २ ॥” तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति — एयं परस मुणी ! महब्भयं नाइवाइज्ज कंचणं, एस वीरे पसंसिए, जे न निव्विज्जइ आयाणा, न मे देइ न कुप्पिज्जा थोवं लद्धुं न खििसए, पडिसेहिओ परिणमिज्जा, एयं मोणं समणुवासिज्जासि ( सू० ८५ ) तिबेमि ॥
'एतत्' प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भयं भयहेतुत्वात् दुःखमेव महाभयं तच्च मरणकारणमिति महदित्युच्यते, एतत् मुने! 'पश्य' सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति । यद्येवं तत्किं कुर्यादित्याह - 'नाइवाएज' इत्यादि, यतो भोगाभिलषणं महद्भयमतस्तदर्थं 'नातिपातयेत्' न व्यथेत 'कञ्चन' कमपि जीवमिति, अस्य च शेषत्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यं । भोगनिरीहः प्राणातिपातादित्रतारूढश्च कं गुणमवाप्नोतीत्याह - 'एस' इत्यादि, 'एष' इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्म्मविदारणात् 'प्रशंसितः' स्तुतो देवराजादिभिः, क एष वीरो नाम ? योऽभिष्यत इत्यत आह- 'जे' इत्यादि, यो 'न निर्विद्यते' न खिद्यते न जुगुप्सते, कस्मै ? - 'आदानाय' आदीयते गृह्यतेऽवाप्यते आत्म स्वतत्त्वमशेषावा|रककर्म्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना (ना) बाधसुखरूपं येन तदादानं - संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् |सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति, आह-'न में' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽ
Jain Education International
For Personal & Private Use Only
॥ १२८ ॥
www.jainelibrary.org