________________
लोक.वि.२ उद्देशकः३
श्रीआचा- शिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयतिं प्रका- राङ्गवृत्तिः शमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥ १॥" तदेवं सर्वकषत्वं (शी०) मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यं, किमिति ?, यतः-'सव्वे पाणा पियाउया' प्राणशब्देनात्राभेदोपचारात् |
तद्वन्त एव गृह्यन्ते, सर्वे प्राणिनो-जन्तवः 'प्रियायुषः' प्रियमायुर्येषां ते तथा, ननु च सिद्धैर्व्यभिचारो, न हि ते ॥१२२॥
| प्रियायुषस्तदभावात् , नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत् , पाठान्तरं वा 'सव्वे पाणा पियायया' आयतः-आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च-'सुहसाया दुक्खपडिकूला'| सुखम्-आनन्दरूपमास्वादयन्तीति सुखास्वादा:-सुखभोगिनः सुखैषिण इत्युक्तं भवति, दुःखम्-असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूला:-दुःखद्वेषिण इत्युक्तं भवति, तथा 'अप्रियवधा' अप्रियं-दुःखकारणं तत् घ्नन्त्यप्रियवधाः, तथापि |'पियजीविणो' प्रियं-दयितं जीवितम्-आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा' यत एव प्रियजीविनोऽत
एव दीर्घकालं जीवितुकामाः-दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, 18|| उक्तं च "रेमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई । मग्गइ सरीरमहणो रोगी जीए च्चिय कयत्थो ॥१॥"|| तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थं दयि
१ रमते विभववान् विशेषे स्थितिमात्रं स्तोकविस्तारोऽभिलषति । मार्गयति शरीरमधनो रोगी जीवित एव कृतार्थः ॥१॥
॥१२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org