SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ECORRECRACTER विवर्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति, आह च-'जीवितम् आयुष्कानुपरमलक्षणमसंयमजीवितं वा 'पृथग्' इति प्रत्येकं प्रतिप्राणि 'प्रियं' दयितं वल्लभम् 'इहे'ति अस्मिन् संसारे 'एकेषाम्' अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनां, तथाहि-दीर्घजीवनाथ तास्ता रसायनादिकाः क्रियाः सत्त्वोपघातकारिणीः कुर्वते, तथा 'क्षेत्र' शालिक्षेत्रादि 'वास्तु' धवलगृहादि मम इदमित्येवमाचरतां सतां तत्क्षेत्रादिकं प्रेयो भवति, किं च-'आरक्तम्' ईषद्रक्तं व. स्त्रादि विरक्तं' विगतरागं विविधरागं वा 'मणिः' इति रत्नवैडूर्येन्द्रनीलादि 'कुण्डलं' कर्णाभरणं हिरण्येन सह स्त्रीः परिगृह्य 'तत्रैव' क्षेत्रवास्त्वारक्तविरक्तवस्त्रमणिकुण्डलस्यादौ 'रक्ता' गृद्धा अध्युपपन्ना मूढा विपर्यासमुपयान्ति, वदन्ति चनात्र'तपो वा' अनशनादिलक्षणं 'दमो वा' इन्द्रियनोइन्द्रियोपशमलक्षणो 'नियमोवा' अहिंसात्तलक्षणः फलवान् दृश्यते, तथाहि-तपोनियमोपपेतस्यापि कायक्लेशभोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीति चेद्युद्राहितस्योल्लापः, किं च-दृष्टहानिरदृष्टकल्पना च पापीयसीति, तदेवं साम्प्रतेक्षी भोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्ण यथावसरसम्पादितविषयोपभोगं 'बालः' अज्ञः 'जीवितुकामः' आयुष्कानुभवनमभिलपन् 'लालप्यमानः' भोगार्थमत्यर्थ लपन् वाग्दण्डं करोति, तद्यथा-अत्र तपो दमो नियमो वा फलवान्न दृश्यत इत्येवमर्थ ब्रुवन् मूढः अबुध्यमानो हतोपहतो जातिमरणमनुपरिवर्त्तमानो जीवितक्षेत्रख्यादिलोभपरिमोहितमनाः 'विपर्यासमुपैति' तत्त्वेऽतत्त्वाभिनिवेशम् अतत्त्वे च तत्त्वाभिनिवेशं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति, उक्तं च-"दाराः परिभवकारा बन्धुजनो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy