________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥१०३॥
लोक.वि.२ उद्देशकः१
परिहायमाणेहिं अभिकंतं च खलु वयं स पेहाए तओ से एगदा मूढभावं
जणयंति ॥ ६३॥ शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, तच्च कदम्बपुष्पाकारं द्रव्यतो भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभावमिति, तेन श्रोत्रेण परिः-समन्ताद् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानर्जराप्रभावात्सरिहीयमानैः सद्भिस्ततोऽसौ-प्राणी 'एकदा' वृद्धावस्थायां रोगोदयावसरे वा 'मूढभावं' मूढतां कर्त्तव्याकर्त्तव्याज्ञतामिन्द्रिय-| पाटवाभावादात्मनो जनयति, हिताहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे 'तिडगं तिडो भवन्तीति बहुवचनमकारि, अथवा तानि वा श्रोत्रविज्ञानानि परिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापादयन्तीति, श्रोत्रादिविज्ञानानां च तृतीया प्रथमार्थे सुब्व्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम् , अत्र च करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यं-श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्टणि कुतो न भवन्ति ?, उच्यते, अशक्यमेवं विज्ञातुं, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात् , दृश्यते च हृषीकोपघातेऽपि तदुपलब्धार्थस्मरणं, तद्यथा-धवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहिअहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणां, यद्येवमन्यान्यपि करणानि सन्ति तानि किं नोपात्तानि?, कानि पुनस्तानि?, उच्यन्ते, वाक्पाणिपादपायूपस्थमनांसि वचनादानविहरणो
|
dan Education International
For Personal & Private Use Only
www.jainelibrary.org