________________
भागे त्रिभागत्रिभागे वा जघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा कर्फरन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वर्तिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुष्क इति, उपक्रमश्चोपक्रमणकारणैर्भवति, तानि चामूनि—“दंडकससत्थरजू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा य वाही य ॥१॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । घंसणघोलणपीलण आउस्स उवक्कमा एते ॥२॥" उक्तं च "स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह | यज्जीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति?॥ १ ॥ उच्छासावधयः प्राणाः, स चोच्छ्रासः समीरणः । समीरणाच्चलं नान्यत् , क्षणमप्यायुरद्भुतम् ॥२॥” इत्यादि । येऽपि दीर्घायुष्कस्थि|तिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहां जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
तंजहा-सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिणाणेहि परिहायमाणेहिं फासपरिणाणेहिं
१ दण्डः कशा शस्त्रं रज्जुरग्निरुदकं पतनं विषं व्यालाः। शीतमुष्णमरतिर्भयं क्षुत्पिपासा च व्याधिश्च ॥ १ ॥ मूत्रपुरीषनिरोधः जीर्णेऽजीणे च भोजने बहुशः । घर्षणं घोलनं पीडनमायुष उपक्रमा एते ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org