SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ पभोगधविसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च-"उक्खणइ खणइ निहणइ रत्तिं ण सुअति दियावि य ससंको। लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥१॥ भुंजसु न ताव रिक्को जेमेउं नविय अन्ज मजीहं । नवि य वसीहामि घरे कायव्वमिणं बहुं अजं ॥२॥" पुनरपि लोभिनोऽशुभव्यापारानाह-'आलंपे' आ-समन्ताल्लुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्तव्याकर्त्तव्यविवेकोऽर्थलोभैकदत्तदृष्टिरैहिकामुष्मिकविपाककारिणीनिर्लाञ्छनगलकर्त्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च-सहसकारे' करणं कारः, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकारः स विद्यते यस्येत्यर्श आदिभ्योऽच,(पा०५-२-१२७)अथवा छान्दसत्वात्कर्तर्येव घञ् , करोतीति कारः, तथाहि-लोभतिमिराच्छादितदृष्टिरबैंकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदना-| दितो विनश्यति, लोभाभिभूतो ह्यर्थंकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान् , आह च-विणिविट्ठचित्ते'। विविधम्-अनेकधा निविष्ट-स्थितमवमाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम्-अन्तःकरणं यस्य स तथा, पाठान्तरं वा 'विणिविट्ठचिट्टे'त्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्जनोपायादी चेष्टा यस्य स विनिविष्टचेष्टः। तदेवं मातापित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा किम्भूतो भवतीत्याह-'इत्थ' इत्यादि, 'अत्र' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः|| १ उत्खनति खनति निदधाति (हन्ति ) रात्रौ न स्वपिति दिवाऽपि च सशङ्कः । लिम्पति स्थगयति सततं लाञ्छितप्रतिलाञ्छितं करोति ॥ १ ॥ भुङ्व न तावन्निापारो जिमितुं नापि चाद्य मड्क्ष्यामि । नापि च वत्स्यामि गृहे कर्तव्यमिदं बह्वय ॥२॥ Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy