________________
अध्ययनं,
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशकः१
AAAAAA
यादिस्थानरसंख्यातगच्छगतैरनन्तभागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थान सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः? येषामनन्तभागे व्रतानि वर्तेरनिति । स्यान्मतिः, अन्ये केवलगम्या इति, इदमुक्तं भवति-केवलगम्याप्रज्ञापनीयपर्यायाणामपि तत्र प्रक्षेपाबहुत्वम्, एवमपि ज्ञानज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा इति । अत्रोचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा चारिपर्यायैनिदर्शनपर्यायसहितैः परिपूर्णा तत्प्रमाणा-सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात्पर्यायानतभागवृत्तित्वमित्यदोषः । इदानीं सारद्वारं, कः कस्य सार इत्याह____ अंगाणं किं सारो? आयारो. तस्स हवइ किं सारो?। अणुओगत्थो सारो तस्सवि य परूवणा सारो॥१६॥ __ सष्टा, केवलमनुयोगार्थो-व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति । अन्यच्च
सारो परूवणाए चरणं तस्सवि य होइ निव्वाणं । निव्वाणस्स उ सारो अव्वाबाहं जिणा बिंति ॥१७॥
सष्टैव । इदानीं श्रुतस्कन्धपदयोर्नामादिनिक्षेपादिकं पूर्ववद्विधेयं, भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्या|त्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह__बंभम्मी य चउकं ठवणाए होइ बंभणुप्पत्ती। सत्तण्हं वण्णाणं नवण्ह वण्णंतराणं च ॥१८॥ तत्र ब्रह्म नामादिचतुर्की, तत्र नामब्रह्म ब्रह्मेत्यभिधानम् , असद्भावस्थापना अक्षादौ सद्भावस्थापना प्रतिविशिष्टय१ आचार्या आहुः प्र.
ARRESCARSAUGAULANEER
॥
७
॥
-०५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org