SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) बद्धाश्चानुदीर्णा इति, नोद्रव्यकर्म कृषीवलादिकर्म । अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकर्मेत्यवाचि, काः पु- लोक.वि.२ नस्ता वर्गणा इति सङ्कीर्त्यन्ते ?, इह वर्गणाः सामान्येन चतुर्विधाः-द्रव्यक्षेत्रकालभावभेदात् , तत्र द्रव्यत एकट्यादि उद्देशकः१ सङ्ख्ययासख्येयानन्तप्रदेशिकाः क्षेत्रतोऽवगाढद्रव्यैकद्व्यादिसङ्ख्येयासख्येयप्रदेशात्मिकाः कालत एकठ्यादिस ख्येयासङ्ख्येयसमयस्थितिकाः भावतो रूपरसगन्धस्पर्शस्वगतभेदात्मिकाः सामान्यतः, विशेषतस्तूच्यन्ते-तत्र परमाणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सख्येयप्रदेशिकानां स्कन्धानां सङ्ख्येयाः असङ्ख्येयप्रदेशिकानामसख्येयाः, एताश्चौदारिकादिपरिणामाग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लङ्घय औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खल्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकशरीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृद्ध्या प्रवर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः को विशेषः ?, जघन्यात् उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वादेकैकोत्तरप्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानां जघन्योत्कृष्टमध्यवर्तिनी-10 नामानन्त्यं, तत औदारिकयोग्योत्कृष्टवर्गणायां रूपप्रक्षेपेणायोग्यवर्गणा जघन्या भवन्ति, एता अप्येकैकप्रदेशवृद्ध्योस्कृष्टान्ता अनन्ता भवन्ति, जघन्योत्कृष्टवर्गणानां को विशेषः?, जघन्याभ्योऽसख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वादतिसूक्ष्मपरिणामत्वाच्चौदारिकस्यानन्ता एवाग्रहणयोग्या भवन्ति, अल्पप्रदेशत्वाद्वादरपरिणामत्वाच्च वैक्रियस्यापीति, अत्र च यथा यथा प्रदेशोपचयस्तथा तथा विश्रसापरिणामवशाद्वर्गणानां सूक्ष्मतरत्वमवसेयम् । एतदेवोत्कृष्टोपरि Jain Education International For Personal & Private Use Only www.iainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy