SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ मस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधयो नामादयर, सनव्यवहारौ तु कपायसम्बन्धाभावादादेशसमुत्पत्ती नेच्छतः, ऋजुसूत्रस्तु वत्तेमानार्थनिष्ठत्वादादेशसमुत्पत्तिस्थापना मेच्छति, शब्दस्तु मानोऽपि कथ-1 ञ्चिद्भावान्तर्भावानामभावाविच्छतीति गाथातात्पर्यार्थः ॥ तदेवं कषायाः कर्मकारणत्वेनोक्ताः, तदपि संसारस्य, सच कतिविध इति दर्शयति दब्वे खित्ते काले भवसंसारे अ भाषसंसारे । पंचविहो संसारो जत्थेते संसरंति जिआ॥ १८२॥ द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति, कालसंसारः यस्मिन् काल इति, नारकतिर्यनरामरगतिचतुर्विधानुपूर्युदयावान्तरसङ्क्रमणं भवसंसारः, भावसंसारस्तु संसृसिस्वभाव औदयिकादिभावपरिणतिरूपः, तत्र च प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम्, एवं द्रव्यादिकः पञ्चविधः संसारः, अथवा द्रव्यादिकश्चतुर्धा संसारः, तद्यथा-अश्वाद्धस्तिनं ग्रामानगर वसन्ताद ग्रीष्मं औदयिकादौपशमिकमिति गाथार्थः॥ तस्मिंश्च संसारे कर्मवशगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह णामंठवणाकम्मं दव्बकम्मं पओगकम्मं च । समुदाणिरियावहियं आहाकम्मं तवोकम्मं ॥ १८३ ॥ किइकम्म भावकम्मं दसविह कम्मं समासओ होइ। नामकर्म कर्थिशून्यमभिधानमात्रं, स्थापनाकर्म पुस्तकपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपा स्थापना, द्रव्य-14 कर्म व्यतिरिक्तं द्विधा-द्रव्यकर्म नोद्रव्यकर्म च, तन्त्र द्रव्यकर्म कर्मवर्गणान्तःपातिनः पुद्गलाः बन्धयोग्या बध्यमाना Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy