________________
श्रीआचाराङ्गवृत्तिः (शी.)
लोक.वि.२ उद्देशका१
॥८६॥
तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ३॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥४॥" इत्यादि, संसारस्य त्वादिमूलं विषयकषाया इति ॥ मूलमुक्तमिदानीं स्थानस्य पञ्चदाधा निक्षेपमाह__णामंठवणादविए खित्तद्धा उड्ड उवरई वसही। संजम पग्गह जोहे अयल गणण संधणा भावे ॥१७॥ ___ तत्र द्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानम्-आश्रयः, क्षेत्रस्थानं भरतादि ऊ धस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थान व्याख्यायते, अद्धा-कालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात् , तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसङ्खयेया उत्सर्पिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणाम(ण)सङ्खयेया वर्षसहस्राः, पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा भवाः । भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहस्रात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणि पल्योपमानि, देवानां नारकाणां च कायस्थितेरभावाद्भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्व-| षामन्तर्मुहूर्त्तात्मिका, नवरं देवनारकयोर्दश वर्षसहस्राणीति, अथवा अद्धास्थान-समयावलिकामुहूर्ताहोरात्रपक्षमासत्वेयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतसर्वाद्धारूपमिति । ऊइंस्थान तु कायोत्सगोदिकम् , अस्योपलक्षणत्वान्निषण्णाद्यपि गृह्यते । उपरतिः-विरतिः, तत्स्थानं देशे सर्वत्र च श्रावकसाधुविषयं । वसति
अद्धास्थान-समयामति । ऊर्द्धस्थान या वसति
॥८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org