________________
मूलस्य षोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , नामस्थापने गतार्थे, द्रव्यमूलं ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति, तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यचिकित्सको रोगप्रतिघातसमर्थ मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकं, आदिमूलं नाम यद्वक्षादिमूलोत्सत्तावाद्यं कारणं, तद्यत् स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्त्तनोत्तरप्रकृतिप्रत्ययाच्च मूलमुत्पद्यते, एतदुक्तं भवति-तेषामौदारिकशरीरत्वेन मूलनिवर्त्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाद्यं कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्सद्यते व्याख्यायते वा, एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमूलं तु विधेति गाथार्थः॥ तथाहि
ओदइयं उवदिट्ठा आइ तिगं मूलभाव ओदइ। आयरिओ उवदिट्ठा विणयकसायादिओ आई ॥१७४॥ | भावमूलं त्रिविधम्-औदयिकभावमूलम् उपदेष्टुमूलम् आदिमूलं चेति, तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वम-1|| नुभवन्नामगोत्रकर्मोदयात् मूलजीव एव, उपदेष्ट्रभावमूलं त्वाचार्य उपदेष्टा-यैः कर्मभिःप्राणिनो मूलत्वेनोत्पद्यन्ते, तेषामपि मोक्षसंसारयोर्वा यदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति–'विणयकसाआइओ आई' तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह-"विणया णाणं णाणाउ दसणं दसणाहि चरणं तु । चरणाहिंतो मोक्खो मुक्खे सुक्खं अणाबाहं ॥ १॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुत-18 ज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् ।।
१ विनयात् ज्ञानं ज्ञानादर्शनं ज्ञानदर्शनाभ्यां चरणं तु । ज्ञानदर्शनचरणेभ्यस्तु मोक्षो मोक्षे सौख्यमनाबाधम् ॥१॥
in Education International
For Personal & Private Use Only
www.janelibrary.org