________________
*OSAA RAFARMACIAS
नुबन्धिक्रोधाद्युपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेपः, इत्येवं तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः, मारणा||न्तिकसमुद्घातो हि मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेशे आलोकान्तादात्मप्रदेशानां भूयो भूयः प्रक्षेपसंहाराविति, वैकि
यसमुद्घातो वैक्रियलब्धिमतो वैक्रियोसादनाय बहिरात्मप्रदेशप्रक्षेपः, तैजससमुद्घातस्तैजसशरीरनिमित्तं तेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्घातश्चतुर्दशपूर्वविद आहारकलब्धिमतः क्वचित्सन्देहापगमनाय तीर्थ
करान्तिकगमनार्थमाहारकशरीरं समुपादातुं बहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तनींतादन्यसमुद्घातं नियुक्तिकारः स्वत एवाचष्टे-'पूरयति' व्याप्नोति हन्दीत्युपप्रदर्शने, किम्-'लोक' चतुर्दशरज्वात्मक-2
माकाशखण्डं, कुतो?, बहुप्रदेशगुणत्वात्, तथाहि-उत्पन्नदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्य 8
दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तम्-“दंडे कवाडे मंथंतरे य'त्ति गाथार्थः ॥ गतो द द्रव्यगुणः, क्षेत्रादिकमाह
देवकुरु सुसमसुसमा सिद्धी निन्भय दुगादिया चेव । कल भोअणुजु वंके जीवमजीवे य भावंमि ॥१७२॥ | क्षेत्रगुणः देवकुर्वादिः, कालगुणे सुषमसुषमादिः, फलगुणे सिद्धिः, पर्यवगुणे निर्भजना, गणनागुणे द्विकादि, करण|गुणे कलाकौशल्यम्, अभ्यासगुणे भोजनादि, गुणागुणे ऋजुता, अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वाद्गाथायां पृथगनुपादानं, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणो जीवः क्षान्त्याधु
१ दण्डः कपाटो मन्था अन्तराणि च.
CACAASANSAR
Jan Education Internal
For Personal & Private Use Only
www.jainelibrary.org