________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ८५ ॥
पादिस्वरूपवद् एवं ह्यभेदः स्याद्-यदि रूपादौ समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन्, अन्यथा विरुद्धधर्माध्यासाद्विद्येरन् घटपटवदिति । तदेवं भेदाभेदोपपत्तिभिर्व्याकुलितमतिः शिष्यः पृच्छति - उभयथाऽपि दोषापत्तिदर्शनात्कथं गृह्णीमः १, आचार्य आह-अत एव भेदाभेदोऽस्तु तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि - गुणगुणिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्भेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि - "दव्वं पज्जवविजुयं दव्वविउत्ता य पज्जवा णत्थि । उप्पायइिभंगा हंदि दवियलक्खणं एयं ॥ १ ॥ नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ २ ॥” इ त्यादि स्वयूथ्यैरत्र बहु विजृम्भितमित्यलं विस्तरेण । एतदेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणभेदेन व्यव स्थितमाह
संकुचियवियसियत्तं एसो जीवस्स होइ जीवगुणो । पूरेह हंदि लोगं बहुप्पएसत्तणगुणेणं ॥ १७१ ॥ जीवो हि सयोगिवीर्यसद्द्द्रव्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठयुपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तसमुद्धातवशात् सङ्कुचति विकसति च, सम्यक् समन्ततः उत्- प्राबल्येन हननम् - इतश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुद्घातः, स च कषायवेदनामारणान्तिकवैक्रियतैजसाहारक केवलि समुद्घातभेदात् सप्तधा, तत्र कषायसमुद्घातोऽनन्ता
१ द्रव्यं पर्यायवियुतं द्रव्यवियुताश्च पर्यवा न सन्ति । उत्पादस्थितिभङ्गा हन्दि द्रव्यलक्षणमेतत् ॥ १ ॥
Jain Education International
For Personal & Private Use Only
लोक.वि. २
उद्देशकः १
॥ ८५ ॥
www.jainelibrary.org