________________
शस्त्र.परि१ उद्देशकः
श्रीआचा- Mव्वयं णिसामेत्ता । तं सवणयविसुद्धं जं चरणगुणहिओ साहू ॥१॥चरणं च गुणश्च चरणगुणौ तयोः स्थितश्चराङ्गवृत्तिः रणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानाख्येन गुणेन वियो(शी०) गोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सरूपात् ज्ञानचरणयोरेव स्थातव्यमिति
निश्चयो विदुषां, न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात् , अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, न च ज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात् , चक्षुर्ज्ञानसमन्वितपनपुरुषअर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत्, तस्मादुभयं प्रधानं, नगरदाहनिर्गमे पड्नबन्धसंयोगक्रियाज्ञानवत् ॥ एवमिदमाचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणोपायगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षकेणार्थतश्चावधृतं भवति श्रद्धामसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महावतारोपणमुपस्थापनं परीक्ष्य निशीथाद्यभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्व यथाविधि कार्यम् । कः पुनरुपस्थापने विधिरिति ?, अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः |स्तुतिभिः अथ पादपतितोत्थितः सूरिः सह शिक्षकेण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्साउँकैकं महानतमादित
आरभ्य त्रिरुच्चारयेद् यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता, पश्चादिदं त्रिरुच्चरितव्यम्-'इच्चेइयाई पंच महव्वयाई राइभोयणवेरमणछठाई अत्तहियडयाए उपसंपजित्ता णं विहरामि' पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्ग
१ इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि आत्महितार्थायोपसंपद्य विरहामि.
9SANSAROSAGAR ASSOCROSEX
॥८०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org