________________
यदतिक्रान्तं मयेति । उक्तः सूत्रानुगमः निक्षेपश्च ससूत्रस्पर्शनिर्युक्तिः । सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः सङ्क्षेपतस्तु सर्वेऽपि एते द्वेधा भवन्ति, ज्ञाननयाश्चरणनयाश्च तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमि त्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वक सकलदुःखप्रहाणाच्च ज्ञानमेव न तु क्रिया, चरणन - यास्तु चरणस्य प्राधान्यमभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानां तथाहि - सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसिते न चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्च मोक्षालाभः, तस्मान्न ज्ञानं प्रधानं, चरणे पुनः सति सर्वमूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् केवलावबोधप्राप्तिः, ततश्च यथाख्यातचारित्रवह्निज्वालाकलापप्रतापितसकलकर्म्मकन्दोच्छेदः, तदुच्छेदादव्याबाधसुखलक्षणमोक्षावाप्तिरिति, तस्माच्चरणं प्रधानमित्यध्यवस्यामः । अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम् - " हैयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दहो, | धावमाणो य अंधओ ॥ १ ॥” तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम् — “ऐवं सव्वेवि णया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोष्णणिस्सिया पुण हवंति ते चेव सम्मत्तं ॥ १ ॥” तस्मादुभयं परस्परसापेक्षं मोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानं चरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं । तथा चोभयप्राधान्यदिदर्शयिषयाह - सव्वेसिंपि णयाणं बहुविधवत्त
१ हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पङ्गुर्दग्धो धाश्वान्धः ॥ १ ॥ २ एवं सर्वेऽपि नयाः मिथ्यादृष्टयः खपक्षप्रतिबद्धाः । अन्योऽन्यनिश्रिताः पुनर्भवन्ति त एव सम्यक्त्वम् ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org