________________
श्रीआचाराङ्गवृत्तिः (शी०)
बध्यन्त इत्यर्थः, एकस्मिन् जीवनिकाये वधप्रवृत्तः शेषनिकायवधजनितेन कर्मणा बध्यते, किमिति ?-यतो न ह्यकजीव
शस्त्र.परि१ निकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यत इत्यतस्त्वमेवं जानीहि, श्रोतुरनेन परामर्शः, अत्र च द्वितीयार्थे प्रथमा, ततश्चैवमन्वयो लगयितव्यः-पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, के उद्देशक पुनः पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणोपादीयन्ते ? इति, आह-जे आयारे ण रमंति' ये ह्यविदितपरमार्था ज्ञानदर्शनचरणतपोवीर्याख्ये पञ्चप्रकाराचारे 'न रमन्ते'न धृतिं कुर्वन्ति, तदधृत्या च पृथिव्याद्यारम्भिणः, तान् कर्म-12 भिरुपादीयमानान् जानीहि, के पुनराचारे न रमन्ते ?, शाक्यदिगम्बरपार्श्वस्थादयः। किमिति ?, यत आह-'आरंभमाणा विणयं वयंति' आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनयं-संयममेव भाषन्ते, कर्माष्टकविनयनाद्विनयः-संयमः, शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमे वा तदाश्रितारम्भित्वात् ज्ञानाद्याचारविकलत्वेन नष्टशीला इति । किं पुनः कारणं?, येनैवं ते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत आह-'छन्दोवणीया अज्झोववण्णा' छन्दः-स्वाभिप्रायः इच्छामात्रमनालोचितपूर्वापरं विषयाभिलाषो वा, तेन छन्दसा उपनीताः-प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते, अधिकमत्यर्थमुपपन्ना तच्चित्तास्तदात्मकाः अध्युपपन्नाः-विषयपरिभोगायत्तजीविता इत्यर्थः, य एवं विषयाशाकर्षितचेतसस्ते किं कुयुरि| त्याह-आरंभसत्ता पकरंति संग आरम्भणमारम्भः-सावद्यानुष्ठानं तस्मिन् सक्ताः-तत्पराः प्रकर्षेण कुर्वन्ति, सज्यन्ते
१ छन्देनोपनीताः प्र. 'अभिप्रायवशौ छन्दौ' इत्यमरोक्तेः 'छन्दो वशेऽभिप्राये च' इति सकारान्तेऽनेकार्थोके यमसाधुः.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org