________________
४ शस्त्र-परि१
उद्देशकः७
R
श्रीआचा- सुविहिय! तो सावगरक्खसा मुच्चे ॥१३॥ आयंकभओविग्गो ताहे सो णिच्चउज्जुओ जाओ। कोवियमती य समए रण्णा राङ्गवृत्तिः त मरिसाविओ पच्छा ॥ १४ ॥ दव्वायंकादसी अत्ताणं सव्वहा णियत्तेइ । अहियारंभाउ सया जह सीसो धम्मघोसस्स (शी०)
॥ १५॥ भावातङ्कादशी तु नरकतिर्यमनुष्यामरभवेषु प्रियविप्रयोगादिशारीरमानसातङ्कभीत्या न प्रवर्त्तते वायुसमा
रम्भे, अपि त्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतो य आतङ्कदर्शी भवति विमलविवेकभावात् स वायुस॥७६॥
मारम्भस्य जुगुप्सायां प्रभुः, हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति । वायुकायसमारम्भनिवृत्तेः कारणमाह-'जे अज्झत्थ'मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्म, तच्च सुखदुःखादि, तद्यो जानाति-अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी दुःखाचो|द्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिष्वपेक्षा?, यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतैरतराव्यभिचारादिति । परात्मपरिज्ञानाच्च यद्विधेयं तद्दर्शयितुमाह-एयं
१ सुविहिताः ततः श्रावकराक्षसात् मुधेयम् ॥ १३ ॥ आतथभयोद्विग्नस्तदा स निलमुद्युक्तो जातः । कोविदमतिय समये राज्ञा क्षमितः पश्चात् ॥ १४ ॥ द्रव्यातवादी आत्मानं सर्वथा निवर्तयति । अहितारम्भात् सदा यथा शिष्यो धर्मघोषस्य ॥ १५॥
-CA
॥७६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org