SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ विअ अ तालवंदे सुप्पसियपत्त चेलकण्णे य । अभिधारणा य बाहिं गंधग्गी वाउसस्थाई ॥ १७० ॥ व्यजनं-तालवृन्तं सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रस्विन्नो यद्बहिरवतिष्ठते वातागमनमार्गे साऽभिधारणा, तथा गन्धाः - चन्दनोशीरादीनां अग्निर्ज्याला प्रतापश्च तथा प्रतिपक्षवातश्च शीतोष्णादिकः, प्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्रं सूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाक्काय लक्षणमवगन्तव्यमिति ॥ अधुना सकलनिर्युक्त्यर्थोपस जिहीर्षुराह साई दारं ताई जाईं हवंति पुढवीए । एवं वाउछेसे निज्जुती कित्तिया एसा ॥ १७१ ॥ 'शेषाणि' उक्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वार कलापव्यावर्णनाद् वायुकायोद्देशके निर्युक्तिः कीर्त्तितैषाऽवगन्तव्येति ॥ गतो नाम निष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् — 'पहू एजस्स दुगुंछणाए 'त्ति, अस्य चायमभिसम्बन्धः - इहानन्तरोदेश के पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्वकारणमभिहितम्, इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते, तथा पर|म्परसूत्रसम्बन्धः 'इहमेगेसिं णो णायं भवइत्ति, किं तत् ज्ञातं भवति ?, 'पहु एजस्स दुर्गुछणाए त्ति, तथा आदिसूत्रसम्ब न्धश्च 'सुयं मे आउसंतेण' मित्यादि, किं तत् श्रुतं ?, यत्प्रागुपदिष्टं तथैतच्च Jain Education International पहू एजस्स दुर्गुछणाए ( सू० ५५ ) 'दुगुञ्छ 'ति जुगुप्सा प्रभवतीति प्रभुः समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति ?, 'एज कम्पने ' एजतीत्येजो - For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy