________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ७४ ॥
शस्त्र. परि १ उद्देशकः ७
'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छन्दो नाभाववचनः, किं त्वसद्रूपं वायोरिति चक्षुर्गाह्यं तद्रूपं न भवति, सूक्ष्मपरिणामात् परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्च 3 गाथया प्रदर्शितः, प्रयोगश्चायं-चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत् तिर्यगेव गमननियमाभावात् अनियमित विशेषणोपादानाच्च परमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात्, जीवपुद्गलयोः 'अनुश्रेणिगति' ( तत्त्वा० अ० २ सू० २७) रिति वचनात् एवमेष वायुः - घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति ॥ परिमाणद्वारमाह
जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा ।। १६८ ।। ( दारं ) ये वादरपर्याप्तका वायवस्ते संवर्त्तितलोकप्रतरासङ्ख्येयभागवर्त्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्| पृथगसङ्घयेयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायम त्रावगन्तव्यः - बादरापूकायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असङ्खयेयगुणाः बादरापकाया पर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्ख्येयगुणाः सूक्ष्मापूकाया पर्याप्तकेभ्यः सूक्ष्मवा|य्वपर्याप्तका विशेषाधिकाः सूक्ष्मापूकायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः ॥ उपभोगद्वारमाह
वियणघमणाभिधारण उस्सि चणफुसणआणुपाणू अ । बायरवाउक्काए उवभोगगुणा मणुस्साणं ॥ १६९ ॥ व्यजनभस्त्राध्माताभिधारणोत्सिञ्चन फूत्कारप्राणापानादिभिर्बादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्याणामिति ॥ शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदाद्विविधं द्रव्यशस्त्राभिधित्सयाऽऽह
Jain Education International
For Personal & Private Use Only
॥ ७४ ॥
www.jainelibrary.org