________________
आयारो आचालो आगालो आगरो य आसासो । आयरिसो अंगंति य आइण्णाऽऽजाइ आमोक्खा ॥७॥
आचर्यते आसेन्यत इत्याचारः, स च नामादिचतुर्द्धा तत्र ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तो द्रव्याचारोSनया गाथयाऽनुसर्त्तव्यः - ' णामण धोयणवासणसिक्खावणसुकरणाविरोहीणि । दव्वाणि जाणि लोए दव्वायारं वियाणाहि ॥ १ ॥ भावाचारो द्विधा - लौकिको लोकोत्तरश्च तत्र लौकिकः पाषण्डिकादयः पञ्चरात्रादिकं यत् कुर्व्वन्ति स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिकः, तत्र ज्ञानाचारोऽष्टधा तद्यथा - 'काले विणए बहुमाणे उवहाणे तहा अणिण्हवणे । वंजणअत्थतदुभए अट्ठविहो णाणमायारो ॥ १ ॥' दर्शनाचारोऽप्यष्टधैव तद्यथा - 'निस्संकियनिक्कखिय निव्वितिगिच्छा अमूढदिट्ठी य । उववूहथिरीकरणे वच्छलपभावणे अट्ठ ॥ २ ॥' चारित्राचारोऽप्यष्टधैव, - 'तिन्नेव य गुत्तीओ पंच समिइओ अट्ठ मिलियाओ । पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो ॥ ३ ॥ तपआचारो द्वादशधा, तद्यथा - 'अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य
१ नामनधावनवासन शिक्षणसुकरणाविरोधीनि । द्रव्याणि यानि लोके द्रव्याचारं विजानीहि ॥ १ ॥
२ कालो विनयः बहुमानः उपधानं तथा अनिहवः । व्यञ्जनमर्थस्तदुभयस्मिन् अष्टविधो ज्ञानाचारः ॥ १ ॥ निश्शङ्कितो निष्काङ्क्षितो निर्विचिकित्सोऽमूढदृष्टिश्च । उपबृंहा स्थिरीकरणं वात्सल्यं प्रभावनाऽष्टौ ॥ २ ॥ तिस्र एव च गुप्तयः पञ्च समितयोऽष्ट मिलिताः । प्रवचनमातर इमास्तासु स्थितवरणसंपन्नः ॥ ३ ॥ अनशनमनमौदर्य वृत्तिसंक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥ ४ ॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गेऽपि च अभ्यन्तरं तपो भवति ॥ ५ ॥ अनिगूहितबलवीर्यः पराक्रमते यो यथोक्तमायुक्तः । युनक्ति च यथास्थाम ज्ञातव्यः स वीर्याचारः ॥ ६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org