SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीआचा. रागवृत्तिः (शी०) AKADAKARA अध्ययनं १ उद्देशकः१ ॥४॥ ROSSA SEXUA* चरणदिग्वर्जानां चतुर्विधो निक्षेपः, चरणस्य षडूविधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथासम्भवमायोज्यम् ॥ ३॥ नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह जत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं। जत्थविय न जाणिज्जा चउक्कयं निक्खिवे तत्थ ॥४॥ ___ 'यत्र' चरणदिक्शब्दादौ यं निक्षेप-क्षेत्रकालादिकं जानीयात्तं तत्र निरवशेष निक्षिपेद्, यत्र तु निरवशेष न जानीयादाचाराङ्गादौ तत्रापि नामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः॥४॥प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽभ्यधायि आयारे अंगंमि य पुवुद्दिठो चउक्कनिक्खेवो । नवरं पुण नाणत्तं भावायारंमि तं वोच्छं ॥५॥ क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते-'भावाचारविषय' इति ॥५॥ यथाप्रतिज्ञातमाह तस्सेगट्ट पवत्तण पढमंग गणी तहेव परिमाणे । समोयारे सारो य सत्तहि दारेहि नाणत्तं ॥६॥ 'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः-प्रवर्त्तनमाचारस्याभूत् तच्च वाच्यं, तथा प्रथमाङ्गता च वाच्या, तथा गणी-आचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं, तथा 'परिमाणम्' इयत्ता वाच्या, तथा किं व समवतरतीत्येतच्च वाच्यं, तथा सारश्च वाच्यः, इत्येभिरैः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः॥६॥ अवयवार्थ तु नियुक्तिकृदेवाभिधातुमाह ॥४॥ AS Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy