________________
श्रीआचा राङ्गवृत्तिः (शी०)
॥ ६४ ॥
नरकादिगत्याभिमुख्यप्रवणत्वात् समाचरणं समाचारः - अनुष्ठानं, वक्रः समाचारो यस्यासौ वक्रसमाचारः, असंयमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमर्द्दकारीत्यतो वक्रसमाचारः, प्राकू शब्दादिविषयलवसमास्वादनाद्भृद्धः पुनरात्मानमाचारयितुमसमर्थत्वादपथ्याम्रफलभोजिराजवद्विनाशमाशु संश्रयत इति ॥ एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् 'खंतपुत्तोव्व' इदमाचरति —
पमत्तेऽगारमावसे (सू० ४४ )
प्रमत्तो विषयविषमूर्च्छितः 'अगारं' गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान् असावपि विरतिरूपभाव लिङ्गरहितत्वात् गृहस्थ एवेति ॥ अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
Jain Education International
लज्जमाणा पुढो पास, अणगारा मोति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चैव जीवियस्स परिवंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वणस्सइसत्थं समारंभइ अहिं वा वस्सइसत्थं समारंभावेइ अपणे वा वणस्सइसत्थं समारभमाणे
For Personal & Private Use Only
अध्ययनं १ उद्देशकः५
॥ ६४ ॥
www.jainelibrary.org