SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ५१ ॥ निर्युक्तिः 'कीर्त्तिता' व्यावर्णिता भवतीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्से बेमिव सयं लोगं अब्भाइक्खेजा णेव अत्ताणं अब्भाइक्खेजा, जे लोयं अभाइक्ख से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अभाइक्खइ से लोयं अब्भाइक्इ (सू० ३१ ) अस्य च सम्बन्धः प्राग्वद्वाच्य इति, येन मया सामान्यात्मपदार्थ पृथिव्यप्कायजीवप्रविभागव्यावर्णनमकारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्तेजो जीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीमि किं पुनस्तदिति दर्शयति'नैवेत्यादि, इह हि प्रकरणसम्बन्धाल्लोकशब्देनाग्निकायलोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव 'स्वयम्' आत्मना - ऽभ्याचक्षीत नैवापहुवीतेत्यर्थः, एतदभ्याख्याने ह्यात्मनोऽपि ज्ञानादिगुणकलापानुमितस्याभ्याख्यानमवाप्नोति, अथ च प्राक् प्रसाधितत्वादभ्याख्यानं नैवात्मनो न्याय्यम्, एवं तेजस्कायस्यापि प्रसाधितत्वात् अभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति, एवं चास्य युक्तत्यागमबलप्रसिद्धस्याभ्याख्याने क्रियमाणे सत्यात्मनोऽप्यहं प्रत्यय सिद्धस्याभ्याख्यानं भवतःप्रातम् । एवमस्त्विति चेत्, तन्नेति दर्शयति- 'नेव अत्ताणं अब्भाइक्खेज्जा' नैवात्मानं - शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेन आहृतमिदं शरीरं केनचिदभिसन्धिमता, तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात् न च प्रसाधितप्रसाधनं पिष्टपेषणवत् विद्वज्जनमनांसि रञ्जयति, Jain Education International For Personal & Private Use Only अध्ययनं १ उद्देशकः ४ ॥ ५१ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy