________________
एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १२२ ॥ 'एतैः' दहनादिभिः कारणैस्तेजस्कायिकान् जीवान् "हिंसन्ती'ति सङ्घट्टनपरितापनापद्रावणानि कुर्वन्ति 'सात' सुख तदात्मनोऽन्विष्यन्तः 'परस्य' बादराग्निकायस्य दुःखम् 'उदीरयन्ति' उत्पादयन्तीति ॥ साम्प्रतं शस्त्रद्वार, तच्च द्रव्यभावशस्त्रभेदात् द्विधा, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह
पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा । बायरतेउक्काए एयं तु समासओ सत्थं ॥ १२३ ॥ 'पृथिवी' धूलिः अप्कायश्च आर्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः, एतद्वादरतेजस्कायजन्तूनां 'समासतः' सामान्येन शस्त्रमिति ॥ विभागतो द्रव्यशस्त्रमाह
किंची सकायसत्थं किंची परकाय तदुभयं किंची। एयं तु व्वसत्थं भावे य असंजमो सत्थं ॥१२४॥ किञ्चिच्छस्त्रं स्वकाय एव-अग्निकाय एव अग्निकायस्य, तद्यथा-तार्णोऽग्निः पार्णाग्नेः शस्त्रमिति, किश्चिच्च परकायशस्त्रम्उदकादि, उभयशस्त्रं पुन:-तुषकरीषादिव्यतिमिश्रोऽग्निरपराग्ने, तुशब्दो भावशस्त्रापेक्षया विशेषणार्थः, 'एतत्तु' पूर्वोक्तं समासविभागरूपं पृथिवीस्वकायादि द्रव्यशस्त्रमिति । भावशस्त्रं दर्शयति-भावे शस्त्रम् असंयमो-दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥ उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिही!नियुक्तिकृदाह
सेसाई दाराई ताई जाइं हवंति पुढवीए । एवं तेउद्देसे निजुत्ती कित्तिया एसा ॥ १२५॥ उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि 'एवम्' उक्तप्रकारेण तेजस्कायाभिधानोद्देशके
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org