SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥४९॥ 'तेजसोऽपि' अग्नेरपि 'द्वाराणि' निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवाद। अध्ययनं१ दर्शयितुमाह-'नानात्वं' भेदो विधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, चशब्दालक्षणद्वारपरिग्रहः॥ यथाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽह उद्देशकः४ दुविहा य तेउजीवा सुहुमा तह वायरा य लोगंमि । सुहुमा य सवलोए पंचेव य बायरविहाणा ॥११७॥ स्पष्टा ॥ बादरपञ्चभेदप्रतिपादनायाहइंगाल अगणि अच्ची जाला तह मुम्मुरे य बोद्धव्वे । बायरतेउविहाणा पंचविहा वणिया एए॥१९८॥ दग्धेन्धनो विगतधूमज्वालोऽङ्गार:-, इन्धनस्थः प्लोषक्रियाविशिष्टरूपः तथा विद्युदुल्काऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषोऽर्च, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति ॥ एते च बादराग्नयः स्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्द्धतृतीयेषु । द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङ्गीकरणेन लोकासङ्खयेयभागवर्तिनः, तथा चागमः-"उववाएणं दोसु उड्ढकवाडेसु तिरियलोयतट्टे (हे) य” अस्यायमर्थः-अर्द्धतृतीयद्वीपसमुद्र-४ बाहल्ये पूर्वापरदिक्षणोत्तरस्वयम्भूरमणपर्यन्तायते ऊोधोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निषूसद्यमानकास्तव्यपदेशं लभन्ते, तथा 'तिरियलोयतट्टे (हे) यत्ति तिर्यग्लोकस्थालके च व्यवस्थितो बादराग्निषूत्सद्यमानो बादराग्निव्यप ॥४९ देशभाग् भवति । अन्ये तु व्याचक्षते-तयोस्तिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोकतत्स्थः, तत्र च स्थित Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy