________________
समारम्भयेत्, नैव
अण्णे ण समणुजाणेजा, जस्सेते उदयसत्थसमारंभा परिणाया भवंति से हु मुणी
परिणातकम्मे (सू० ३०) त्ति बेमि ॥ इति तृतीयोऽप्कायोद्देशकः ॥ 'एतस्मिन्' अप्काये 'शस्त्रं' द्रव्यभावरूपं समारभमाणस्येत्येते समारम्भा बन्धकारणत्वेनापरिज्ञाता भवन्ति, अत्रैवाप्काये शस्त्रमसमारभमाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञापूर्विकां दर्शयति-तद्' उदकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी-मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, नैवान्यानुदकशस्त्रं समारभमाणान्समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति । ब्रवीमीति | पूर्ववद् । इति शस्त्रपरिज्ञायां तृतीयोद्देशकः समाप्तः॥ । उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके मुनित्वप्रतिपत्तये अप्कायः प्रतिपादितः, तदधुना तदर्थमेव क्रमायातस्तेजस्कायप्रतिपादनायायमुद्देशकः समारभ्यते-तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे तेजउद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि, अत्र च पृथिवीविकल्पतुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वात् अपोद्धार इत्येतत् द्वयमुररीकृत्य नियुक्तिकृद् गाथामाह
तेउस्सवि दाराई ताई जाई हवंति पुढवीए । नाणत्तीउ विहाणे परिमाणुवभोगसत्थे य ॥११६॥
पूर्ववद् । इति शस्त्रपरिजालमारम्भाः द्विधा परिक्षा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org