________________
श्री तत्त्वार्थ
हरि० ९ अध्या०
॥४९३ ॥
MCJACJOLOG
Jain Education International
CCCCC
तेष्वेव हिंसादिष्वधर्म्म कार्येष्वभ्युदयस्य संज्ञाऽस्ति तस्यामरणांतदोषतेति, आर्चरौद्रे व्याख्याते, सम्प्रति धर्म्यध्यानावसरः, तच्च सभेदं सस्वामिकमाख्यायते,—
आज्ञाऽपाय विपाकसंस्थान विचयाय धर्म्यमप्रमत्तसंयतस्य ।। ९-३७ ॥ सूत्रम् ॥
आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः, आज्ञादीनां विचयः - पर्यालोचनं, विचयशब्दः प्रत्येकमभिसंबध्यते, आज्ञापाय विपाकसंस्थानविचयशब्दात्तादर्थ्ये चतुर्थी, धर्म्यशब्दो व्याख्यातः, अप्रमत्तसंयतस्येति स्वामिनिर्देशः, तत्राज्ञा - सर्वज्ञप्रणीत आगमः तामाज्ञामित्थं विचिनुयात्-- पर्यालोचयेत्, पूर्वापरविशुद्ध्यमाननिपुणामशेषजीवनिकायहितामनवद्यां महानुभावां | निपुणजन विज्ञेयां द्रव्यपर्यायप्रपंचवतीमनाद्यनिधनां " इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ नासी"त्यादि वचनात् तथा विचयेऽप्येवं चिंता - क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथा भाषते इत्याज्ञायाः स्मृतिसमन्वाहारः प्रथमं धर्म्यध्यानमुच्यते, अपाया-विपदः शारीरमानसानि दुःखानीति पर्यायाः तेषां विचयः - अन्वेषणं, इहामुत्र च रागद्वेपाकुलितचेतोवृत्तयः सच्चा मृलोतरप्रकृतिविभागापिंतजन्मजरामरणार्णव भ्रमणपरिखेदितांतरात्मानः नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते, केचिदिहापि कृतवैरानुबंधाः परस्परमाकोशवधबन्धाद्यपायभाजो दृश्यन्ते, ते क्लिश्यन्त इत्यतः प्रत्यपायप्रायेऽस्मिन संसारे अत्यन्तोद्वेगाय स्मृतिसमन्वाहारताऽपायविचयं धर्म्मध्यानमाविर्भवति, तृतीयं धर्म्मध्यानं विपाकविचयाख्यमुच्यते, विविधो विशिष्टो वा पाको विपाकः - अनुभावः, अनुभवो रसानुभावः कर्म्मणां नरकतिर्यङ्मनुष्यामरभवेषु तस्य विचयः - अनुचिंतनं मार्गणं तदर्पितस्तत्रैव स्मृतिं समाहृत्य वर्त्तमानो विपाकविचयध्यायी भवति, ज्ञानावरणादिकमष्टप्रकारं कर्म्म प्रकृतिस्थित्यनुभव प्रदेश भेद मिष्टानिष्टविपाकपरिणामं जघन्यमध्यमो
For Personal & Private Use Only
धर्मध्यानं
| ॥४९३ ॥
www.jainelibrary.org