________________
श्रीतस्वार्थहरि०
९ अध्या०
॥४९२॥
Jain Education International
प्रयोजनं भवति रौद्रं ध्यानं, एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यं रौद्रमित्युक्तनिर्वचनं, अविरतश्च देशत्रिरतश्च कृत| द्वन्द्वौ स्वामिनो रौद्र ध्यानस्य निर्दिष्टौ षष्ठीबहुवचनेन । एतदेव भाष्यकारो विवृणोति - ' हिंसार्थ 'मित्यादिना, स्पष्टम्, एतदर्थं दर्शयति- प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, तच्च सच्चाव्यापादनाद् बन्धन परितापनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दं तत्र स्मृतिसमन्वाहारो रौद्रध्यानं, ये च व्यापादनोपायाः परस्य च दुःखोत्पादनोपायास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । प्रबलरागद्वेषमोहस्यानृतानन्दं द्वितोयं, अनृतप्रयोजनं कन्यास्थितिनिक्षेपव्यपलापशिश्नाभ्यासासद्भूतभूतघातातिसंधानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारस्तत्रैव दृढं प्रणि| धानमनृतानन्दमिति । स्तेयार्थं स्तेयप्रयोजनमधुनोच्यते, तीव्रसंक्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचाराहितसंस्कारस्यापास्त| परलोकापेक्षस्य परस्वादित्सोरकुशल स्मृतिसमन्वाहारः परद्रव्यग्रहणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । विषयसंरक्षणार्थं चतुर्थो विकल्पः, तत्साधनान्यचेतनचेतनमिश्रवस्तूनि विषयशब्दवाच्यानि विषीदंति वा प्राणिनो येषु परिभुंजानास्ते विषयाः, | यथोक्तं " यद्यपि निषेव्यमाना मनसः परितुष्टिकारका विषयाः । किंपाकफलादनवद्भवंति पश्चादतिदुरंताः ॥ १ ॥ ” विषयाणां च संरक्ष| णमेवमुक्तं- 'परिग्रहेष्वप्राप्तनष्टेषु कांक्षाशोको, प्राप्तेषु रक्षणमुपभोगे चातृप्तिः' इत्थं च विषयसंरक्षाहितक्रौर्यस्य तत्रैव स्मृतिसमन्वाहा| रमाचरतो विषयसंरक्षानंदं रौद्रं भवति ध्यानं, तच्चैतदविरतदेशविरतस्वामिकं, तौ च पूर्वोक्तलक्षणौ, तयोरेव च न भवत्येतत् प्रमत्तसंयतादीनामिति, रौद्रध्यायिनस्तीत्रसंक्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्रस्तदनुगमाच्च नरकगतिमूलमेतत्, लिंगान्यस्य हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेनानवरतमविश्रान्त्या प्रवर्त्तमानस्य बहुकृत्येऽभिनिविष्टान्तःकरणस्य बहुदोषता अज्ञानदोषता
For Personal & Private Use Only
रौद्रध्यानं
॥४९२॥
www.jainelibrary.org