________________
उत्तराध्ययन
सूत्रम्
९९२
ומון
।। अथ केशिगौतमीयनाम त्रयोविंशमध्ययनम् ।। ।। अर्हम् ।। उक्तं द्वाविंशं, अथ केशिगौतमीयं त्रयोविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने हि कथञ्चिदुत्पन्नविश्रोतसिकेनापि el रथनेमिवद्धर्मेधृतिः कार्येत्युक्तं, अत्र तु परेषामपि मनोविप्लवः केशिगौतमवदपनेय इत्युच्यते । इतिसम्बन्धस्यास्येदमादिसूत्रं -
जिणे पासित्ति नाणं, अरहा लोगपूइए । संबुद्धप्पा य सव्वण्णू, धम्मतित्थयरे जिणे ||१||
व्याख्या
'जिनो' रागद्वेषादिजेता पार्श्व इति नाम्नाभूदिति शेषः, 'अर्हन्' विश्वत्रयविहितपूजार्हः, अत एव लोकपूजितः, सम्बुद्धस्तत्वावबोधवानात्मा यस्य स तथा स च छद्यस्थोऽपि स्यादित्याह - सर्वज्ञस्तथा धर्म एव भवाब्धितरणहेतुत्वात्तीर्थं धर्मतीर्थं तत्करणशीलो धर्मतीर्थकरो 'जिनः' सकलकर्मजेता, मुक्तयवस्थापेक्षमेतदिति सूत्रार्थः । । १ । । अत्र प्रसङ्गागतं श्रीपार्श्वचरितं लेशतो लिख्यते, ॥ तथा हि -
llell
lal
॥७॥
-
अत्रैव भरते वासा- 'वसथे सकलश्रियाम् । गर्भगेहोपमं जज्ञे, पत्तनं पोतनाभिधम् ।। १ ।। नीतिवल्लीघनस्तत्र, गुणालङ्कृतभूघनः । जिनधर्मारविन्दालि' - ररविन्दोऽभवन्नृपः ।। २ ।। लब्धशास्त्राब्धिरोधास्त त्पुरोधा जिनधर्मवित् । विश्वभूतिरभूत्तस्य भार्या चानुद्धराभिधा ।। ३ ।। सुतौ तयोश्च कमठ-मरुभूती बभूवतुः । वरुणावसुन्धरा, तयोश्चाभवतां प्रिये ।। ४ ।।
१ वासगृहे । २ जिनधर्मकमलभ्रमरः । ३ प्राप्तशास्त्रसमुद्रतटः ।
11ell Jain Education Me National
For Personal & Private Use Only
केशिगौतमीयनाम
॥७॥ त्रयोविंश
मध्ययनम्
FFFFFF
९१२
www.jainelibrary.org