________________
उत्तराध्ययन
सूत्रम्
६६७
LOODS
।। अथ पायश्रमणीयनाम सप्तदशमध्ययनम् ।।
॥७॥ पायश्रमणीय
नाम
।। ॐ ।। व्याख्यातं षोडशमध्ययनं, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने ॥७॥ ॥ ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्स्वरूपमनेनोच्यते इत्यनेन सम्बन्धेनायातस्यास्येदमादौ ||७|| सूत्रद्वयम् -
सप्तदश॥७॥ मध्ययनम्
व्याख्या
यः कश्चित्तुः पूरणे प्रव्रजितो निर्ग्रन्थः, कथं पुनः प्रव्रजितः ? इत्याह- धर्मं शुभचारित्ररूपं श्रुत्वा विनयेन ज्ञानविनयादिना उपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुः प्रापं लब्ध्वा बोधिलाभं जिनधर्मावाप्तिरूपं, अनेन भावप्रतिपत्त्याऽसौ प्रव्रजित इत्युक्तं भवति । विहरेत्पश्चाद्दीक्षादानोत्तरकालं चः पुनरर्थे ततश्च प्रथमं सिंहतया प्रव्रज्य पश्चात्पुनः ||| 'जहासुहं तुत्ति' तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिप्रमादपरतया शृगालवृत्त्यैव विहरेदित्यर्थः ।। १ ।। स च गुर्वादिनाऽध्येतुं प्रेरितो यद्वक्ति तदाह
Jain Education intonal
जे केइ उ पव्वईए निअंठे, धम्मं सुणित्ता विणओववण्णे ।
सुदुलहं लहिउं बोहिलाभं, विहरिज्ज पच्छा य जहासुहं तु । । १ । ।
-
-
DDRESS
For Personal & Private Use Only
DELED
६६७
www.jainelibrary.org