________________
उत्तराध्ययन
सूत्रम् ६५५
का उपभोक्ता भवति, तदित्यनन्तरोक्तं कथं ? कुतो हेतोरिति चेदेवं यदि मन्यसे आचार्य आह - अत्रोच्यते, निर्ग्रन्थस्य खलु निश्चितं ॥ ब्रह्मचर्यसमाधि nan स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य 'बंभयारिस्सत्ति' अपेर्गम्यत्वाद् ब्रह्मचारिणोपि सतो ब्रह्मचर्य शङ्का वा इहान्येषामिति ॥ स्थानानिनाम 16 गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी ? उत नेति शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का is स्त्र्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं
सारङ्गलोचना ! ॥१॥" इत्यादि रागातुरवचः परिभावयतो मिथ्यात्वोदयात्कदाचित्तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवतीत्येवं 16 संशय उत्पद्यते । काङ्क्षा वा स्त्र्यादिवाञ्छारूपा "प्रियदर्शनमेवास्तु, किमन्यैर्दर्शनान्तरः । निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ? Mel
।।१।।" इत्यादिवादिदर्शनाभिलाषरूपा वा । विचिकित्सा किमेतावत: कष्टानुष्ठानस्य फलं भावि न वा ? तद्वरमेतदासेवनमेवास्तु ! Mel ॥ इत्येवंरूपा समुत्पद्येत । भेदं वा विनाशं चारित्रस्येति शेषः, लभेत । उन्मादं वा कामग्रहात्मकं प्राप्नुयात्, योषिद्विषयाभिलाषविशेषात्मनो
विप्लवसम्भवात् । दीर्घकालिकं वा दीर्घकालभावि रोगश्च दाहज्वरादिः आतङ्कश्चाशुघाती शूलादिः रोगातकं भवेत्, सम्भवति हि II Is रमणीयरमणीरमणाभिलाषातिरेकादरोचकित्वं, ततश्च दाहज्वरादीति । केवलिप्रज्ञप्ताद्वा धर्मात् श्रुतचारित्ररूपात्समस्ताद् भ्रश्येत्, IS कस्यचित् क्लिष्टकर्मोदयाद्धर्मभ्रंशस्यापि सम्भवात्, यत एवं तस्मादित्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ।।१४।। उक्तं Ms समाधिस्थानं प्रथम, द्वितीयमाह -
६५५ ||७||
Well
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org