________________
उत्तराध्ययन
सूत्रम्
६५१
वायं विविहं समि लोए, सहिए खेदाणुगए अ कोविअप्पा । पणे अभिभूअ सव्वदंसी, उवसंते अविहेडए स भिक्खू ।। १५ ।।
सभिक्षुनाम ॥७॥ पञ्चदश
||७|| मध्ययनम्
lell
व्याख्या - वादं विविधं "मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः । गृहवासेपि च धर्मो, वनेपि च सतां भवति धर्मः ।। १ ।। " इत्यादिकदर्शनान्तराभिप्रायरूपं समेत्य ज्ञात्वा लोके, सहित: 'प्राग्वत्, स्वस्मै हितः स्वहित इति वा, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतः Hell खेदानुगतः चः पूरणे, कोविदो लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा, 'पण्णे अभिभूअ सव्वदंसीति' 'प्राग्वत्, उपशान्तो निष्कषायः, अविहेठको न कस्यापि बाधको यः स भिक्षुरिति सूत्रार्थ: ।। १५ ।। तथा
असिप्पजीवि अगि अमित्ते, जिइंदिए सव्वो विप्पमुक्के ।
अणुक्कसाई लहुअप्पभक्खी, चित्रा गिहं एगचरे स भिक्खू ।। १६ ।।
व्याख्या - अशिल्पजीवी चित्रादिविज्ञानजीविकारहितः, अगृहो गृहरहितः, 'अमित्तेत्ति' उपलक्षणत्वादमित्रशत्रुः, जितेन्द्रियस्तथा सर्वतो बाह्यादाभ्यन्तराञ्च ग्रन्थादिति गम्यते विप्रमुक्तः । तथा अणवः स्वल्पाः कषाया अस्येति अणुकषायी, लघूनि निःसाराणि निष्पावादीनि अल्पानि
१. सहित: ज्ञानक्रियाभ्याम्, यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्त्तते इति सहित । २. प्राशो हेयोपादेयबुद्धिमान्, अभिभूव परीषहोपसग्गन्, सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ।।
Jain Education International
For Personal & Private Use Only
2222220
६५१
www.jainelibrary.org