SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ loll उत्तराध्ययन- ॥8॥ वयः प्रक्रमादिष्टक्रियाकरणक्षमं, उपलक्षणत्वाज्जीवितं च ततो यावत्तन्न त्यजति तावत्प्रव्रजाम इति भावः । दीक्षां हि भवान्तरभाविभोगार्थं गृह्णासि इषुकारीयनाम सूत्रम् ॥6॥ ते चाधुनापि सन्त्येव तत्किं तयेति प्रेरणायामाह - न जीवितार्थमसंयमजीवितहेतो: प्रजहामि भोगान् किन्तु लाभमलाभं सुखं चस्य भिन्नक्रमादुःखं ॥ चतुर्दश६३४ ॥ च 'संविक्खमाणोत्ति' समतया ईक्षमाणः, लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन्निति भावः, चरिष्यामि मौनं मुनिभावं, ततो ॥ मध्ययनम् मुक्त्यर्थमेव मे दीक्षाप्रतिपत्तिरिति सूत्रार्थः ।। ३२ ।। यशा प्राह - मा हु तुमं सोअरिआण संभरे, जुण्णोव्व हंसो पडिसो अगामी । भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिआ विहारो ।। ३३ । 11ell व्याख्या - मा निषेधे, हुर्वाक्यालङ्कारे, त्वं सौदर्याणां भ्रातृणामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च 'संभरेत्ति' स्मार्षीः 'जुण्णोव्व हंसोत्ति' ॥ जीर्णो हंस इव प्रतिश्रोतोगामी सन्, अयं भावः - यथासौ नदीस्त्रोतसि प्रतिकूलागमनमतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा ॥ त्वमपि व्रतभारं वोढुमक्षमः स्वजनान् भोगांश्च स्मरिष्यसि, ततो भुङ्क्ष्व भोगान् मया समानं सार्द्धं । 'दुक्खं खुत्ति' दुःखमेव भिक्षाचर्या भिक्षाटनं विहारो ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतत्छिरोलोचादीनामिति सूत्रार्थ: ।। ३३ । भृगुः प्राह - जहा य भोइ ! तणुअं भुअंगमो, निम्मोअणि हेच पलेइ मुत्तो । एमेए जाया पहंति भोए, तेऽहं कहं नाणुगमिस्समिक्को ।। ३४ ।। व्याख्या - यथा च पूर्त्तो 'भोइत्ति' हे भवति । तनुजां देहोद्भवां भुजङ्गमो निर्मोचनीं कञ्चलिकां हित्वा पर्येति समन्ताद्गच्छति मुक्तो निरपेक्ष:, Jain Education International For Personal & Private Use Only ॥६॥ 11.11 ६३४ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy