________________
Isl
सूत्रम् ४६६
नवममध्ययनम्
llel
lloli
'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन प्राकारं
कारयित्वेत्यादेः प्रतिवचनमुक्तं ।। २०।। सम्प्रति तु सत्सु प्राकाराट्टालकेष्ववश्यं योद्धव्यं तञ्चायुधेषु वैरिषु च सत्स्वेव स्यादत आह - ill धणुं परक्कम किञ्चा, जीवं च इरिअं सया । धिइं च केअणं किञ्चा, सचेणं पलिमंथए ।। २१।।
व्याख्या - धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यञ्चां च ईर्यामीर्यासमिति, उपलक्षणत्वाच्छेषसमितीश्च I कृत्वा सदा । धृतिं च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्टमयमुष्ट्यात्मकं कृत्वा, तत्केतनं सत्येन मनःसत्यादिना स्नायुस्थानीयेन | ie 'पलिमंथएत्ति' बनीयात् ।।२१।। ततः किमित्याह -
तवनारायजुत्तेणं, भित्तूणं कम्मकंचुअं । मुणिविगयसंगामो, भवाओ परिमुञ्चई ।। २२।।
व्याख्या - तपः षड्विधमाभ्यन्तरं तदेव नाराचो लोहमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा भित्वा विदार्य कर्मकञ्चुकं कर्मग्रहणेन ॥ चात्मैवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च "अप्पा मित्तममित्तं च, दुपट्ठिअसुपट्ठिएत्ति" मुनिः साधुः कर्मभेदे जेयस्य जितत्वात् विगतसङ्ग्रामो यस्य स विगतसङ्ग्रामः भवात् संसारात् परिमुच्यते । अनेन सूत्रत्रयेण प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ।।२२।।
||ol 16
४६६
isli
IST
For Personal Prese Only