________________
उत्तराध्ययन
सूत्रम्
विनयनाम
प्रथममध्ययनम्
।। अहम् ।। महोपाध्यायश्रीमद्भावविजयगणिविरचितविवृत्त्या सहितं
उत्तराध्ययनसूत्रम् ।
"विनयनाम-प्रथममध्ययनम्" ॐ नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ।।१।। श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनीं च सुधियां जननीं प्रणम्य ।। श्रीउत्तराध्ययनसज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकथां च काञ्चित् ।।२।। निर्युक्त्यर्थः पाठा-न्तराणि चार्थान्तराणि च प्रायः । श्रीशान्तिसूरिविरचित-वृत्ते यानि तत्त्वज्ञैः ।।३।। पूर्वविहिता यद्यपि, बढ्यः सन्त्यस्य वृत्तयो रुचिराः । पद्यनिबद्धकथार्थं, तदपि क्रियते प्रयत्नोऽयम् ।।४।।
इहोत्तराध्ययनानीति कः शब्दार्थः ? उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन 6 दशवैकालिकनिष्पत्तेरनु च तत एवोर्ध्वमधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र ॥ श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादौ शासनाधिकारी श्रीसुधर्मस्वामी विनयाध्ययनमाह । तस्य चेदमादि सूत्रम् -
||
||
ॐ
||
in Education International
For Personal & Private Use Only
www.jainelibrary.org