________________
।
fel
||
उत्तराध्ययन
सूत्रम् ११०६
16|| प्रमादस्थानllell 16
नाम द्वात्रिंशमध्ययनम्
Mell
न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहि वा ।
इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ।।१४।। ॥७॥ ii8 व्याख्या - न नैव रूपं सुसंस्थानत्वं, लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः, हासः प्रतीतः, एषां समाहारः, ॥ ||al
न जल्पितमुल्लपितं, 'इंगिअत्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा समुञ्चये स्त्रीणां सम्बन्धि चित्ते निवेश्य, अहो ! सुन्दरमिदमिति ll विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयतां नेतुं व्यवस्येदध्यवस्येत् श्रमण: तपस्वी ।।१४।। कुत एवमुपदिश्यते ? इत्याह -
अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च ।
इत्थीजणस्सारियझाणजुग्गं, हि सया बंभचेरे रयाणं ।।१५।। ||७||
व्याख्या - अदर्शनं च, एवोऽवधारणे, ततः अदर्शनमेव, अप्रार्थनं चाऽनभिलषणं, अचिन्तनं चैव रूपाद्यपरिभावनं, अकीर्तनं च | II नामतो गुणतो वा स्त्रीजनस्य, आर्यध्यानं धर्मादि तद्योग्यं तद्धेतुत्वेनोचितं आर्यध्यानयोग्य, हितं पथ्यं, सदा ब्रह्मचर्ये रतानां । ततो न स्त्रीणां ॥
| रूपादि सरागं द्रष्टुं व्यवस्येदिति स्थितम् ।।१५।। ननु विकारहेतौ सति ये निर्विकाराः स्युस्त एव धीरास्तत्किं विविक्तशयनासनत्वमिष्यते ? in 16 इत्याशङ्क्याह -
ilol
foll
llel
sil
११०६
lel
WON
in Education International
For Personal & Private Use Only
www.jainelibrary.org