________________
उत्तराध्ययन
सूत्रम् १०८२
अथचरणविधिनाम एकत्रिंशमध्ययनम्
।। अथ चरणविधिनामै कत्रिंशमध्ययनम् ।। ।। अर्हम् ।। उक्तं त्रिंशत्तममध्ययनं अथैकत्रिंशं चरणविधिसझं व्याख्यायते, अस्य चायं सम्बन्धोऽनन्तराध्ययने तप उक्तं तचरणवत एव 6 सफलमिति चरणमिहोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् -
चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिण्णा संसारसागरं ।।१।।
व्याख्या - चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य तुरवधारणे भित्रक्रमस्ततः सुखावहं तु सुखावहमेव, कथमित्याहMM जमित्यादि स्पष्टमिति सूत्रार्थः ।।१।। प्रतिज्ञातमाह एकोनविंशत्या सूत्रः In एगओ विरई कुज्जा, एगओ अ पवत्तणं । असंजमे निअत्तिं च, संजमे अपवत्तणं ।।२।।
व्याख्या - एकत एकस्माद्विरतिं कुर्यात्, एकतश्च एकस्मिन् प्रवर्त्तनं कुर्यादिति योगः । एतदेवाह-असंयमात् हिंसादिरूपात्, पञ्चम्यर्थे सूत्रे & सप्तमी, निवृत्तिं च, संयमे च प्रवर्त्तनं कुर्यादित्यनुवर्त्तते, चकारो समुचये ।।२।।
रागद्दोसे अ दो पावे, पावकम्मपवत्तणे । जे भिक्खू रुंभई निचं, से न अच्छइ मंडले ।।३।।
व्याख्या - रागद्वेषौ च द्वौ पापो पापप्रकृतिरूपत्वात्पापकर्मणां ज्ञानावरणादीनां प्रवर्तको यो भिक्षुः रुणद्धि तिरस्कुरुते नित्यं स नास्ते न Is तिष्ठति मण्डले संसारे । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ।।३।।
Ifoll
6
१०८२
Jan Education international
For Personal & Private Use Only