________________
नवपद
वृत्ति:मू.देव.
वृ. यशो ॥२९९॥
कायोत्सर्गेण, इह प्रस्तावे झटित्याकर्ण्य “आस्व दासा'' वित्यादि श्लोकार्द्धमारघट्टिकेन पठ्यमानं प्राह मुनि:-“एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥१॥" ततोऽसावारघट्टिकस्तत् श्लोकार्द्ध पत्रके विलिख्य प्रमोदोत्फुल्लवदनो गतो राजकुलं, पठित: प्रभोः पुरत: सम्पूर्ण: श्लोकः, K तत: स्नेहातिरेकेण गतो राजा मूर्छा, तत आरघट्टिकस्योपरि कुपिता सभा, रोषवशगतया च तयैतद्वचनेन राजेशी दशां गत इति चपेटाभिर्हन्तुमारब्धोऽसौ, हन्यमानेनोक्तं-न मयाऽयं पूरित इति विलपन्नसौ मोचित: कदर्थकेभ्यः, पृष्टश्च कोऽस्य-पूरक: ? इति, स प्राह-अरघट्टसमीपवर्ती मुनिरिति, ततो राजा चन्दनरससेकादिभिर्लब्धचेतनोऽवगतमुनिवरागमवृत्तान्तस्तद्भक्तिस्नेहाकृष्टचित्त: सपरिकरो निर्ययौ, ददृशे च तेन मुनिरुद्याने, तुष्टचेतसा वन्दितः, सविनयमुपविष्टस्तदन्तिके, मुनिना प्रारब्धा देशना, दर्शिता भवनिर्गुणता, वर्णिता: कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापित: शिवसौख्यातिशय:, तत: संविग्ना परिषत्, न भावितो ब्रह्मदत्तः, प्राह च-भगवन् ! यथा स्वसङ्गमसुखेनाह्लादिता वयं तथाऽऽह्लादयतु भगवान् राज्यस्वीकरणेन, पश्चात्तपः सममेव करिष्याव:, एतदेव तपस: फलं, मुनिराह-न युक्तमिदमुदारचेतसां भवतामभिधातुं, केवलं दुर्लभेोऽयं मनुष्यभव: सततं गत्वरमायु: चञ्चला श्री: अनवस्थिता धर्मबुद्धिर्विपाककटवो विषया: तदासक्तानां ध्रुवो नरकपातो दुर्लभं पुनर्मोक्षबीजं विशेषतो विरतिरत्नं न तत्त्यागाद्दुस्तरनरकपातहेतुककतिपयदिनभाविराज्याश्रयणमालादयति चित्तं विदुषां, तत्परित्यज कदाशयं, स्मर प्राग्भवानुभूतदुःखानि, पिब जिनवचनामृतरसं, संचरस्व तदुक्तमार्गे, सफलीकुरु मनुजजन्मेति, स प्राह-भगवन् ! उपनतसुखत्यागेनादृष्टसुखाभिलाषकरणमज्ञतालक्षणं, तन्मैवमादिश, कुरु मत्समीहितं, ततः पुनरुक्तोऽपि यदा न प्रतिबुध्यते तदा चिन्तितं मुनिना-हुं ज्ञातं यत्पूर्वभवे सनत्कुमारचक्रवर्तिस्त्रीरत्नालकसंस्पर्शसुखानुभवजाताभिलाषातिरेकेण मनिवार्यमाणेनापि कृतं तत्प्रार्थ्य संभूतिना सता निदानं तदिदं विजृम्भते, अत: कालदष्टवदसाध्योऽयं जिनवचनमन्त्राणामिति मत्वा मुनिरन्यत्र विचचार, समयान्तरे च क्षपकश्रेणिक्रमेणोत्पाट्य विमलकेवलं मोक्षमनुप्राप्त: । राज्ञस्तु चक्रवर्तिसुखमनुभवतोऽतीत: कश्चित्कालः, अन्यदैकेन द्विजातिनोक्तोऽसौ-भो नृपेश ! ममेदृशी वाञ्छोत्पन्ना यदि चक्रवर्त्तिभोजनं भुजे, राज्ञोक्तं-भो द्विज ! न मामकमन्नं त्वं भोक्तुं क्षमः, यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति, ततो द्विजेनोक्तं-धिगस्तु ते राज्यलक्ष्मीमाहात्म्यं, यदन्नमात्रदानेऽप्यालोचयसि, ततो राज्ञाऽसूययाऽनुज्ञातं, भोजितश्चासौ स्वोचिताहारेण भार्यापुत्रस्नुषादुहितृपौत्रादिबान्धववृन्दान्वितः, गत: स्वगृहम्, आगतायां निशीथिन्याभीषत्परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो गुरुमदनवेदनाष्टचित्त: प्रवृत्तोऽन्योऽन्यमकार्यमाचरितुं द्विजपरिजन:, परिणते चान्ने प्रत्यूषसि लज्जितो द्विजः परिजनश्चान्योऽन्यमास्यं दर्शयितुमपारयन्निर्गतो नगरात्, चिन्तितं च द्विजेन-कथमनिमित्तवैरिणा
॥
Jain Educat
&mational
For Personal Private Use Only
wwwSMorary.org