________________
नवपदत्ति:मू.देव. वृ. यशो
।२७३॥
तस्या एव संप्रेष्येदमुक्ता तया माधवसेना-वत्से ! रसत्यक्तयावकतुल्य एष कृतपुण्यक: सम्प्रति, तत्त्यज्यतामसौ, तयोक्तं-अम्ब ! एतत्प्रसादेन बहुद्रव्यं मीलितमस्माभिः, तन्न युक्त एतत्त्यागः, तयोक्तं-पुत्रि ! न त्वमभिज्ञा वैशिकाचारस्य, यतो वेश्यानामृजुसूत्रनयमतीनामिवातीतानागतत्यागेन वर्तमान एवादरः, सम्प्रति चायं मुनिरिव निष्किञ्चनः, तत्किंमनेन ?, ततस्तस्या अनिच्छन्त्या एव तयाऽसावपमानित:, अन्ये तु वदन्ति-मद्यं पाययित्वाऽज्ञातचर्यया निष्काशितो, गतः स्वगृहमभ्युत्थितः स्वभार्यया कृतचलनक्षालनादिव्यापारश्च ज्ञातवान् पित्रोमरणवृत्तान्तं, कृतवान् महान्तं चित्तखेदं, स्थित्वा च कतिचिद्दिनानि कान्तिमत्याः कृतगर्भाधानः प्रवृत्त: पोतवणिग्भिः सह परकूलं गन्तुं, प्रदोषसमये च निर्गत्य निजगृहानगरबहिस्तादावासितस्य सार्थस्यासन्नायां देवकुलिकायां स्वभार्याप्रस्तारितखट्वायां सुप्तः । इतश्च तत्रैव राजगृहे नगरे सूरनामा श्रेष्ठी भार्याचतुष्टयसमन्वितां स्वमातरं मुक्त्वाऽऽत्मना वाणिज्यबुद्धया दिग्यावां जगाम, स च तवैव कथञ्चिदुपरेमे, लेखबद्धवार्ता च प्रहिता तन्मातुः केनचित्, तयाऽप्येकान्ते ज्ञापिता निजवधूनां, भणिताश्चैताः, यथायूयमपुत्रास्ततो द्रव्यं राजकुले यास्यति अत: प्रवेश्यतां कश्चिदन्योऽपि पुत्रोत्पत्तिनिमित्तं द्रव्यरक्षणार्थं च पुरुषः, ताभिर्भणितम्-अम्ब ! नास्माकं कुलवधूनामिदमुचितं, तयोदितं-न जानीथ यूयम्, अवस्थोचितप्रवृत्तौ न स्मृतिशास्त्रे दोष उक्तः, यदुक्तम्-'नष्टे मृते प्रव्रजिते, क्लीबे च पतितेऽपतौ । पञ्चस्वापत्सु नारीणां, पतिरन्यो विधीयते ॥१॥” इति किञ्च-“कुन्त्या युधिष्ठिरो धर्मेण वायुना भीम इन्द्रेणार्जुनउत्पादित' इत्यादिलोकश्रुतिः, न चासावकुलीनेति, तस्मादवसरायातं कर्त्तव्यमिदमपि, इत्येवं श्वश्रूवचनमुपश्रुत्य प्रतिपन्नं ताभिः, यत:-“एकं । तावदनादिसंसृतिगतैरभ्यस्तमेतत्सदा, जीवैवैषयिकं सुखं गुरुजनस्याज्ञाऽपि लब्धाऽत्र चेत्। जातस्तर्हि महोत्सवः समधिको नन्विन्द्रियाणामथो, न्यायः सैष पयोऽन्तिके किल धृतो यज्जूर्णमार्जारकः ॥१॥" ततस्तास्तस्यामेव रात्रौ पुरुषान्वेषणाय यावत्प्रववृतिरे तावद्ददृशुः सार्थासन्नदेवकुलिकायां । खट्वामारुह्य निर्भरप्रसुप्तमेकाकिनं कृतपुण्यक, तथैवोत्पाट्य निन्युः स्वगृहं, प्रासादमारोप्य प्रवृत्ता रोदितुम्, अन्तरान्तरा च बभणुर्यथा-बहो: कालादागतोऽसि । क्व स्थित एतावन्तं कालं? किमनुभूतमस्मद्विरहे भवता सुखं दुःखं वा ? सोऽपि कृतपुण्यक: किमिदमदृष्टाश्रुताननुभूतपूर्वकं वैशिकमिति चिन्तयन् । शून्यहङ्कारादिप्रदानेन यद्भवति तद्भवतु, पश्यमि तावत्कार्यपरिणतिमितिबुद्ध्या तस्थौ तत्रैव, भणितश्च तासां श्वश्र्वा यथा-वत्स ! पूर्वजन्मोपात्तोदात्तपुण्यसंभारानुभावसंपद्यमानाशेषाभीप्सितार्थान् अनुभव एताभिश्चतसृभिर्दिव्यनायिकाभि: सार्द्धमुदारभोगान. सर्वाऽप्येषा गृहलक्ष्मीस्तवेयं, तत्तिष्ठ यथासुखमेतत्त्यागभोगपरायणः ॥२७३॥ सोऽप्यवादीद्-अम्ब ! यत्त्वमात्थ तत्करोमि, को हि नामावाप्तमहानिधानो रोरत्वाय स्पृहयते इत्यभिधाय स्थितस्तत्रैव, दिव्यदेवलीलया च
Jain Education International
For Personal Private Use Only
www.jainelibrary.org