________________
नवपद
वृत्ति: मू. देव. वृ. यशो
।। २१४ ।।
Jain Educatio
यतस्तद्द्वारको द्वारवत्याः प्रतिपादितः प्रलयस्तीर्थनाथेन ततस्तच्छ्रवणानन्तरमेव शकटशतैरतिवाह्य मद्यकुम्भिकाशतसहस्राणि स्फोटितानि नीत्वा पर्वतकन्दरेषु, द्वीपायनर्षिस्त्वात्मनः सकाशाद्भगवदादिष्टं नगरीविनाशमाकर्ण्य न वसिमे स्थातव्यं मयेत्यभिसन्धिना जातो विविक्तवनवासी, जराकुमारोऽपि हा ! कष्टमिदं यन्मया निजभ्रातुः कनीयसो वधोऽनुष्ठेयः, तत्तत्र गच्छामि यत्र मे नामापि न ज्ञायत इत्यभिप्रायवान् प्रविवेश कोशाम्बवनं, तत्र चावसरे बलदेवस्य भ्राता सारथिः सिद्धार्थनामा बलदेवं व्यजिज्ञपत्यथा मुञ्च मां येन स्वीकरोमि प्रव्रज्यां, ततो विदध्या व्यसनगतस्य मे बोधिमित्यभिधाय मुक्तो रामेण स्वीकृत्य पारमेश्वरी दीक्षामासेव्योत्रं तपश्चरणमायुःक्षये समाराधितमरणो देवभूयं गतः, इतश्चातिक्रान्ते मासषट्के कादम्बरीगुहावर्त्तिन्यां सुजातायां पूर्वत्यक्तायां मदिरायां समागते कामिजनमनोहारिणि वसन्तसमये भवितव्यतावशेन क्रीडार्थं निर्गता: प्रद्युम्नशम्बादयो यादवकुमाराः, तन्मध्यात् शम्बसक्तः कथञ्चिदेको मनुष्यो गतो गिरिनिकुञ्ज, ददश तत्र पिपासाभिभूतः पानीयान्वेषणपरायणो लोकैः पूर्वं परित्यक्तं तत्रत्यानेकपुष्पफलादिसंपातसुजातं मद्यं, पपौ स्वेच्छया, प्रभूतवेलया घूर्णमानः समाजगाम शेषकुमारसमीपं पृष्टस्तैः किमेतत्कृतं त्वया ? क्व वा स्थित एतावती वेलां ?, तेनोक्तम्अमृतोपममपीतपूर्वं मद्यं मयाऽद्य पीतमिहैव नातिनिकटवर्त्तिनि शिखरिगह्वरे, ततस्तेऽपि तद्दर्शितमार्गा गतास्तं प्रदेशं दृष्टवन्तः सुरां पीतवन्तश्च चिरकालमुक्तत्वादायुक्तण्ठया, बाढं विह्वलितचेतनाः ते च ततो रम्यगिरिपरिसरेषु पर्यटन्तो ध्यानावस्थित ददृशुद्वपायनमुनिं समालोक्य भणितं चैकेन तन्मध्यवर्त्तिना-भो ! भो ! स एष योऽस्मन्नगरी विनाशयिष्यति, ततो मदप्रमादवशगैस्तै: पादप्रहारपाषाणक्षेपणादिभिरभिहतोऽसौ, भणितश्च त्वमस्मत्पुरीं विनाशयिष्यसि ?, ततोऽसावेवमुत्त्रास्यमानो हन्यमानोश्चानेकधा गतः कोपं, मयैषा सभवनप्राकारद्विपदचतुष्पदा विनाशयितव्येति निदानं कृत्वा स्थितोऽनशनेन, ज्ञातवृत्तान्तौ बलदेववासुदेवौ भीतभीतौ समं नगरवृद्धलोकैः समाययतुस्तदुपशमनाय, भणितवन्तौ च भगवन् ! महर्षे महातपस्वी भवान् तदेतैर्मूर्खेरजानानैर्गर्भरूपैर्यत् कदर्थितस्तदस्माकं क्षमस्व, क्षान्तिपरा हि मुनयो भवन्ति, तत्प्रसीदतु भवान्, मुनिरुवाच- अस्माकमनपराधानामेतत्कदर्थनमेतैः कृतं तद्दर्शयाम्यस्य दुर्विनयस्याचिरात्फलममीषां निष्कारणवैरिणां सकलजनविनाशकरणेन, वासुदेवेनोक्तं मैवं वोच तपस्विन् !, यदि श्वा दशति तत्किं सोऽपि दष्टव्यः ?, किञ्च यद्यमीभिरपकृतं तत्किमशेषनगर्या अपि विनाशनाय निदानकरणमुचितं ?, अत् प्रसादबुद्धिमाधाय भवद्भिः क्षम्यतामयमेकोऽपराधोऽस्माकं, द्वैपायनोऽब्रवीत्-त्वं हि सुखी न जानासि परदुःखमहमेतैः पापिष्टैरनेकधोत्त्रास्योत्त्रास्याभिहतः, तत्किमेते एव ममापकारिणो नापरो नगरीलोक: 2, ॥ २१४॥ तद्गच्छतु भवान् स्वस्थानं, मया त्वेषामेवोत्त्रासना सत्या कर्त्तव्या न तु क्षमणीय एषोऽपराधो, न भूयो भूयस्त्वया किमपि वक्तव्योऽहं ततो निवारितोऽपि
mational
For Personal & Private Use Only
www.
द्वारकादा वृत्तं
prary.org