________________
KEX7.
&
नवपद- व्याचन्तयत् यथा-पश्य दुवारावषयव्यसनसागरावम
व्यचिन्तयत् यथा-पश्य दुर्वारविषयव्यसनसागरावमग्नेन मयोपेक्षितानि मानुषाणि, नाशितं द्रव्यजातं, संत्यक्तो वेश्मव्यवहारः, किं बहुना?, भाजनीकृतोऽयमात्मा यथोत्पत्ति वृत्तिःमू.देव.
समस्तदुःखनिबन्धनभूताया द्रमकतायाः, तदिदानी किं करोमि?, अथवा यथाकथञ्चिदुपार्जयामि पुनः कियदपि द्रविणं, तद्रहितानां ग्रासाच्छादनमात्रमपि द्वार वृ. यशो
| न संपद्यते यस्मात् ततोऽनेकदुष्कर्मभिः पुनरपि मीलिता: कियन्तोऽपि रूपकाः, अन्येधुश्च संस्मृत्य पूर्वललितानि विकालवेलायां कृतस्नानाङ्गराग: गा. ८६ ॥२१॥
परिहितप्रधानवस्त्रस्ताम्बूलादिसामग्रीसमेतश्चलित: स्वगृहाभिमुखं, दृष्ट: कुन्दकलिकाजनन्या, नीतो निजगृह, स्वीकृता रूपका:, भणिता निजपुत्री-वत्से ! KA स एष तव प्राणप्रियो वेल्लहलो बहो: कालादवलोकितो मयेत्यानीतस्त्वत्समीपं, तदेष तथोपचरणीयो यथा न संस्मरति निजगृहस्य, तयाऽप्यतिसंभ्रममुपदर्शयन्त्या विधाय चरणक्षालनादिक्रियां निवेशितो निजखट्वायां, इतश्च पूर्वमेव स्वीकृताऽसीत्तया राजपुत्रस्यैकस्य भाटी, भवितव्यतावशेन स चायातस्तदैव, ददर्श पर्यङ्कोपविष्टममुं, तत: स्वपुरुषैाहयित्वा तं स्वहस्तेनाकृष्य क्षुरिकां लुलावास्य केशपाशं चिच्छेद कौँ जग्राह नाशां सोष्ठपुटा, ततो गलेग्राहं निष्काश्य तत्स्थानाच्चिक्षेपाशुचिस्थान इति । एवं विडम्बनामिह भवेऽपि विज्ञाय विषयलाम्पट्यात् । क: कुर्यात् स्वहितैषी कामेष्वत्यन्तमासक्तिम् ? ॥१।। कषायप्रमादे च महानर्थहेतौ कियन्त्युदाहरणानि लिख्यन्ते ?, येषां कषायाणामेवं सिद्धान्ते दुरन्तता प्रतिपादिता "कोहो य माणो य अणिग्गहीया, माया य लोभा य पवड्डमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणोभवस्स ॥१॥' तथाऽन्यैरप्युक्तम्-“कोऽन्यः कृतघ्नोऽस्त्यखिलेऽपि लोके, यथा कषायाः कलुषस्वभावाः । य एव तान् लालयति प्रयत्नात्, क्षिपन्त्यगाधे व्यसने तमेव ॥१॥ रामेण भूः क्षत्रियवर्गवर्जिता, सुभूमराजेन च निर्द्विजीकृता। तस्मात्कषाया भवगर्त्तपाते, हनन्तके प्राणिनमानयन्ति ॥२॥" अत एवेदमुपदिष्टं महात्मभि:- "गुणसेणअग्गिसम्माणं, सेणियकोणियाण य । गंगदत्तस्स वुत्तंतं, सोच्चा खंतिं समायरे ॥३॥" एते च दृष्टान्ता ग्रन्थान्तरेभ्य एवावसेयाः । यथा जायत इति द्वारमाह
दट्ठणं दोसजालं अणत्थदंडंमि न य गुणो कोइ । तविरई होइ दढं विवेगजुत्तस्स सत्तस्स ॥८६॥ ___ 'दृष्ट्वा विलोक्य 'दोषजालं' अनर्थसमूह, क्व ? इत्याह-'अनर्थदण्डे' निष्प्रयोजनपापोपदेशादिव्यापारे, 'न च' नैव 'गुणः' अर्थसिद्धिलक्षण: कोऽपि, तस्मादिति च ज्ञात्वेत्यध्याहारः, किमित्याह- 'तद्विरति:' अनर्थदण्डपरिहृतिः भवति' जायते 'दृढं' अत्यर्थं, कस्य ? - 'विवेकयुक्तस्य'
सगुणापगुणवस्तुविचारणासमेतस्य ‘सत्त्वस्य' प्राणिनः, अयमर्थ:-यो ह्यनर्थदण्डे दोषं पश्यति गुणं च तस्मान्न किञ्चिदुपलभते तस्य विवेकिनो Kजीवस्यानर्थदण्डवितिकरणे चित्तमुत्सहते एवेत्यत: स्वोत्साहानुरूप्येण प्रवृत्तिमतोऽस्यैषा जायत इति गाथार्थ: ।। दोषद्वारमिदानीम्Jain Ed e rnational
&
&
&
&
For Personas Private Use Only
witoolbrary.org