SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:म. देव. व. यशो ॥८ ॥ विपाककटुकं चक्रवर्तिपदमालोच्य नरपतिसहस्त्रसहितो गृहीत्वा प्रव्रज्या विहितदुष्टाष्टाकर्मक्षयो मोक्षं गतः । उक्त प्रभावनायां विष्णुकुमारचरितं, भंगद्वारे प्रस्तुतार्थोपसंहारस्तु यथा विष्णुकुमारसाधुना प्रभावना कुता तथा सति सामर्थेऽन्येनापि करणीया, तदकरणे त्वतीचार इति ।। उक्तं सप्रसङ्गोदाहरणं सप्तमं गा. १९ सम्यक्त्वातिचारद्वारमधुनाऽष्टमं भङ्गद्वारमभिधत्ते संमत्तं पत्तंपि हु रोरेण निहाणगवं अइदुलहं । पावेहि अंतरिज्जइ पढमकसाएहि जीवस्स ॥१९॥ 'सम्यक्त्वं' व्याख्यातस्वरूपं 'प्राप्तमपि' लब्धमपि, हुशब्द: पूरणे, 'अंतरिज्जइ' त्ति सम्बन्धादपनीयते, कस्य ?-'जीवस्य' प्राणिनः, किंविशिष्टम् ? 'अतिदुर्लभं' दुःखेन लभ्यते यत्तत्तथा, अतिशयेन दुर्लभमितिविग्रहः, भावार्थस्त्वयमस्य-अनादौ संसारे परिवर्त्तमान एष जीवोऽभिन्नकर्मग्रन्थिन कदाचिदवाप्तवानतोऽतिशयदुष्षापमिदमित्युक्तं, केन किमिव दुष्प्रापमित्याह-रोरेण' रङ्केण निधानमेव निधानकं तदिव-श निधानकमिव, कै: ?- प्रथमकषायैः' अनन्तानुबन्ध्याख्यैः, प्रथमता चैषां प्रथमगुणघातित्वेन, प्रथमगुणश्च सम्यक्त्वं, तन्मूलकत्वाद्देशविरत्यादिगुणानां, कीदृशैस्तै: ?- पापैः' पापहेतुत्वाद्, यद्वा पापप्रकृतिरूपैरिति गाथाऽक्षरार्थ: । भावार्थस्त्व (यम)त्र-क्षायोपशमिकौपशमिकसम्यक्त्वापेक्षमेतद्गाथायां भङ्गद्वारं निर्दिष्टं, न क्षायिकापेक्षं, तस्य शुद्धाशुद्धभेदेन द्गिभेदत्वात्, तत्रापायसद्र्व्यविकला भवस्थकेवलिनां मुक्तानां च या सम्यग्ष्टिस्तच्छुद्धं क्षायिकं, तस्य च साद्यपर्यवसानत्वान्नास्त्येव भङ्गः, यदाह गधहस्ती-भवस्थकेवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शनमोहनीयसप्तकक्षयाविर्भूता सम्यगद्दष्टि: सादिरपर्यवसाने" ति, या त्वपायसहचारिणी श्रेणिकादेरिव सम्यग्दृष्टिस्तदशुद्धं क्षायिकं, तस्य च सादिपर्यवसानत्वादस्ति प्रतिपात:, यदुक्तं गन्धहस्तिना-"तत्र याऽपायसव्व्यवर्त्तिनी, अपायो-मतिज्ञानांश: सद्रव्याणि-शुद्धसम्यक्त्वदलिकानि तद्वर्तिनी, श्रेणिकादीनां च सद्रव्यापगमे । भवत्यपायसहचारिणी सा सादिसपर्यवसाने'' ति, केवलज्ञानोत्पत्तावपायक्षये, अपायो-मतिज्ञानांशस्तक्षयेऽसौ भवति, न प्रथमकषायोदये, तक्ताले | तदुदयाभावात्, तत्क्षय एव तस्योत्पत्तेरित्यलं प्रसङ्गेन गमनिकामात्रफलत्वादारम्भस्येति, दृष्टान्ताश्चात्र कुरुडोक्तुरुडप्रभृतयः स्वमत्याऽभ्यूह्याः ।।१९।। गतमष्टमं भङ्गद्वारमधुना नवमं भावनाद्वारमुच्यतेमिच्छत्तकारणाई कुणंति नो कारणेऽवि ते धन्ना। इइ चिंतेज्जा मइमं, कत्तियसेट्ठी उयाहरणं ॥२०॥ ॥८२॥ मिथ्यात्वस्य-प्राग्व्यावर्णितस्य कारणानि-हेतवो मिथ्यात्वकारणानि-परतीर्थिकादिपरिचर्यापरिचयप्रभृतीनि 'कुर्वन्ति' विदधति यत्तदोर्नित्यसम्बन्धाद् Jain Educa t ional For Personal & Private Use Only wwalpaneibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy