________________
कूपदृष्टांतविशदोकरण
लोक
IX कुसुमशब्दसापेक्षस्वेपि पूजाशब्दस्य प्रणिधानशब्देन सह समासो 'देवदत्तस्य गुरुकुलम्' इत्यादाविव न दोषायेति । लिकादि
तेन पूजाप्रणिधानेन करणभूतेन ।। पूजां विनैव भावमात्रेणैवेति हृदयम् ।। उपपन्नो पन्ना, त्रिदशलोके स्वर्गे || करणानि
४) इत्यक्षरार्थः । कथानकं पुनरेवं पूज्याः प्रतिपादयन्ति ॥ श्रीमन्महावीरवर्धमानस्वामीक्ष्वाकुकुलनन्दनः प्रसिद्धसिद्धार्थ
पार्थिवपुत्रः पुत्रीयितनिखिलभुवनजनो जनितजनमनश्चमत्कारगुणग्रामो ग्रामाकरनगरपुरपौरपृथु पृथिवीं विहरन्नन्यदा ॥४६॥
कदाचित्काकन्दीनामिकायां पुरि समाजगाम, तत्र चामरवरविसरविरचितसमवसरणमध्यवतिनि भगवति धर्मदेशनां विदधति तदा नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्ननभस्तले मागधोद्गीतगुणगणे भेरीभाङ्कारभरिताम्बरतले नरपतौ तथा द्विजवरवैश्यादिके पुरजने तथा गन्धधूपपुष्पपटल प्रभृतिपूजापदार्थव्यर करकिङ्करीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारी निकरे भगवतो वन्दनार्थं प्रव्रजति सति एकया 2 वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थ बहिनिर्गतया कश्चिन्नरः पृष्टः 'क्वाऽयं लोक एकमुखस्त्वरितं याति ?' तेनोक्तं 'जगदेकबान्धवस्य देहिनां जन्मजरामरणरोगशोकदुर्गत्यादिदुःखच्छिदुरस्य श्रीमन्महावीरस्य वन्दनपूजनाद्यर्थं. ततस्तच्छवणात्तस्या भगवति भक्तिरभवत् अचिन्तयच्च, अहमपि भगवतः पूजार्थं यत्नं करोमि केवलमहमतिदुर्गता पुण्यरहिता विहितपुजाङ्गवजितेति ततोऽरण्यदृष्टानि मुधालभ्यानि सिन्दुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी 'अहो धन्या पुण्या कृतार्था कृततलक्षणाऽहं सुलब्धं मम जन्म, जीवितफलं चाहमवाप' इति भावनया पूलककण्टकितकाया प्रमोदजलप्लवप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वद्धतया
२
॥४६॥
JainEduca
For Personal & Private Use Only
lanelibrary.org