SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ लोक- l नालिकादि प्रकरणानि कूपदृष्टांतविशदोकरण ॥४४॥ कल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् ?।। इत्यलं प्रसङ्गेनेतिगाथार्थ इति' । तदेतन्निनुवतां कुपदृष्टान्त- विशदीकरणं काकपक्षविशदीकरणवदुपहासपात्रतामभिव्यनक्ति स्वसम्मताभियुक्तवचनविरुद्धत्वादित्याशङ्कायां नाभियुक्तवचनविरोधो (विरोधोऽविरोधो)न्मुखानामवभासते तस्य भिन्नतात्पर्यकत्वादित्याशयवानाह इसि दुटुत्ते जं, एयस्स नवंगवितिकारेणं । संजोयणं कयं तं, विहिविरहे भत्तिमहिगिच्च ।।३।। व्याख्या-इषदुष्टत्वे अल्पपापबहुनिर्जराकारणत्वे, यत्, एतस्य कूपदृष्टान्तस्य, नवाङ्गीवृत्तिकारेण श्रीअभयदेवसूरिणा पञ्चाशकाष्टकवृत्त्यादौ, तद्विधिविरहे यतनादिवैकल्ये, भक्तिमात्रमधिकृत्य, विधिभक्त्यादिसाकल्ये तु स्व. ल्पमपि पापं वक्तुमशक्यमेवेति भावः ॥३।। कथमयमाशयः सूरेति इति चेत् ?, तत्राहइहरा कहंचि वयणं, कायवहे कहं णु होज्ज पूयाए । न य तारिसो तवस्सी, जंपइ पुवावरविरुद्धं ॥४।। व्याख्या-इतरथा सूरेरुक्ताशयाभावे, पूजायां कायवधे कथञ्चिद्वचनं कथं नु भवेत् न कथञ्चिदित्यर्थः, न च तादृशस्तपस्वी पूर्वापरविरुद्धं वचनं, जल्पति । तस्मादीषद्दोषदुष्टं जिनपूजादिकं विधिविरहभक्तिकालीनमेव ग्राह्यमित्याशय एव युक्तः ।। अयं भाव:-पूजापञ्चाशके जिनार्चने कायवधेन प्रतिक्रुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायां 'भण्णइ जिणपूजाए, कायवहो जइवि होइ उ कहिं चि ।। तहवि तई परिसुद्धा, गिहीणं कूवाहरणजोगा ॥४२॥' इति श्रीहरिभद्रसूरिभिस्समाहितं, तत्र च 'यतनाविशेषेण प्रवर्तमानस्य सर्वथापि न भवतीति दर्शनार्थं कथञ्चिद्ग्रहणमित्यभयदेवसूरिभिर्व्याख्यातं, तेन विधिविरह एव कायवधः पर्यवस्यति ।। 'प्रमादयोगेन प्राणव्य. ॥४४।। Jain Educati o nal For Personal & Private Use Only hinelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy