________________
अध्यात्मि.
॥ २७ ॥
Jain Educa
टीका - श्रप्रमत्तस्य मूरहितस्य शरीरवत्यात्रधरणेऽपि न कोऽपि दोषः । यथा पात्रं मूत्रजनकमेवं शरीरमपि मूजनकं सुप्रतीतमेव । ततश्च शरीरे यदि न मोहस्तर्हि पात्रादावपि कौतस्कुत इति न पात्रादिकारविरोधः । श्रथ मोहलक्ष्एकारणविरोधं परिजिहीर्षन्नाह - गतीति स कवलाहारो मोहोत्यो मोहजन्यो न भवति गत्यादिवत् कालाहारो हि अस्मदादिषु मोहपूर्वक एव दृश्यत इति कृत्वा केवलिनि तदभावोऽन्युपगम्यते । तथा च गत्यादीन्यपि श्रस्मदादिषु मोह* महकृतान्येवोपलभ्यन्त इति केवलिनो मोहाजावेन तदभावस्याप्यशक्य परिहारत्वात्कुतस्तीर्थप्रवृत्तिः । तथा यथा गत्यादिकमंत्र गत्यादीनां कारणं न मोहस्तथा तथाविधाहारपर्याप्तिनामकर्मोदयसहकृतो वेदनीयोदय एव कवलाहारस्य कारणं न मोह इत्यपि प्रतिपद्यताम् । तथा च श्रीरत्नाकरावतारिकायां रत्नप्रजाचार्याः - " तथाविधाहारपर्याप्तिनामकर्मोदयवेदनीयोदयप्रवल प्रज्वल दौदर्यज्वलनोपतप्यमानो हि पुमानाहारमाहारयतीति" न मोहलदणकारणविरोधः । अथ ध्यानविघ्नलक्षणं कार्यविरोधं निरस्यति न चेति । तदा शैलेशी करणात्माक ध्यानं सूक्ष्मक्रियानिवृत्तिसंज्ञकं शुक्लध्यानतृतीयपादलक्षणं नेप्यते नान्युपगम्यते सैद्धान्तिकै रिति शेषः इति न ध्यानविघ्नलक्षणकार्यविरोधः । अथ चतुर्थपंचमप दूषयति-पुलेति । | शरीरस्य हि वृद्धिः पुजलोपचयाद्भवति । न चाहाराजावादेव तदद्भावसिद्धिरिति अन्योऽन्याश्रयापातात् तस्माद्वृद्धिलक्षण - कार्यविरोधोऽपि न जवति । तथौदा रिकशरी रिणामित्येतेन तदभिमतं परमौदा रिकत्वं निरस्तं । तन्निरासस्त्वये स्फुटीक रिष्यते । तदेवं पूर्वोक्ता दिगंबर विकट्टपाः श्वेतांबर सिद्धान्तवचनैरत्यंतं कदर्थिताः क्षणमप्युत्त सितुमशक्ताः स्वयमेव पंचत्वं १ पक्षो
La
For Personal & Private Use Only
परीक्षा.
॥ २७ ॥
nelibrary.org