SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीवीतरागेच्यो नमः ॥ ॥ न्याय विशारदोपाध्याय श्री मद्यशोविजय प्रणीताध्यात्मोपनिषत् ॥ ॥ ऐन्द्रवृन्दनतं नत्वा वीतरागं स्वयंभुवम् ॥ अध्यात्मोपनिषन्नामा ग्रंथोऽस्मानिर्विधीयते ॥ १ ॥ आत्मानमधिकृत्य | स्याद्यः पंचाचारचारिमा | शब्दयोगार्थनिपुणास्तदध्यात्मं प्रचक्षते ॥ २ ॥ रूढ्यर्थ निपुणास्त्वादुश्चित्तं मैत्र्यादिवासितम् ॥ अध्यात्मं निर्मलं बाह्यव्यवहारोपबृंहितम् ॥ ३ ॥ एवंभूतनये ज्ञेयः प्रथमोऽर्थोऽत्र कोविदैः ॥ यथायथं द्वितीयोऽर्थो व्यव हारर्जुसूत्रयोः ॥ ४ ॥ गलन्नयकृतत्रांतिर्यः स्याधिश्रांतिसंमुखः ॥ स्याधादविशदालोकः स एवाध्यात्मजाजनम् ॥ ५ ॥ मनोवत्सो युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुचेन तुम्छाग्रहमनः कपिः ॥ ६ ॥ अनर्थायैव नार्थाय जातिप्रायाश्च युक्तयः ॥ हस्ती हन्तीति वचने प्राप्ताप्राप्त विकल्पवत् ॥ ७ ॥ ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः ॥ कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ८ ॥ श्रागमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् ॥ अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये || || अंतरा केवलज्ञानं बद्मस्थाः खस्वचक्षुषः ॥ हस्तस्पर्शसमं शास्त्रज्ञानं तद्व्यवहारकृत् ॥ १० ॥ शुद्धोन्नाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् ॥ जौतहंतुर्यथा तस्य पदस्पर्श निषेधनम् ॥ ११ ॥ शासनात्राणशक्तेश्च बुद्धैः शास्त्रं निरुच्यते ॥ वचनं वीतरागस्य तच्च नान्यस्य कस्यचित् ॥ १२ ॥ वीतरागोऽनृतं नैव ब्रूयात्तवेत्वभावतः ॥ यस्तघाक्येष्वनाश्वासस्तन्म|हामोहजृंजितम् ॥ १३ ॥ शास्त्रे पुरस्कृते तस्माघीतरागः पुरस्कृतः ॥ पुरस्कृते पुनस्तस्मिन्नियमाद् सर्वसिद्धयः ॥ १४ ॥ For Personal & Private Use Only helibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy