________________
न्द्रियभेदात्पञ्चविधाः तत्रैकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिभेदात्पञ्चप्रकाराः । ननु भवतु जीवलक्षणोपेतत्वाद् द्वीन्द्रियादीनां जीवत्वं, पृथिव्यादीनां तु जीवत्वं कयं श्रद्धेयं, व्यक्ततल्लिङ्गस्यानुपलब्धेरिति चेत्सत्यं । यद्यपि तेषु व्यक्तं जीवलिङ्गं नोपलभ्यते तथाप्यव्यक्तं तत्समुपलभ्यत एव । यथा हृत्पूरव्यतिमिश्रमदिरापानादिभिर्मूर्छितानां व्यक्तलिङ्गाभावेऽपि सजीवत्वमव्यक्तलिङ्गैर्व्यवहियते एवं पृथिव्यादीनामपि सजीवत्वं व्यवहरणीयं । ननु मूर्छितेषूच्छासादिकमव्यक्तं चेतनालिङ्गमस्ति न पुनः पृथिव्यादिषु तथाविधं किश्चिन्चेतनालिङ्गमस्ति । नैतदेवं । पृथिवीकाये ताक्त् स्वस्वाकारावस्थितानां लवणविदुमोपलादीनां समानजातीयाडुरोत्पत्तिमत्त्वम् अर्शोमांसाङ्करस्येव चेतनाचिहमस्त्येव । अव्यक्तचेतनानां हि संभावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्या वनस्पतेश्च चैतन्यं विशिष्टर्नुफलमदत्वेन स्पष्टमेव, साधयिष्यते च । ततोऽव्यक्तोफ्योगादिलक्षणसद्भावात्सचित्ता पृथिवीति स्थितम् । प्रयोगश्च-विद्रुमशिलादिरूपा पृथिवी सात्मिका छेदे समानधातूत्थानात् अर्थोडरवत् । ननु च विद्रुमपाषाणादिपृथिव्याः कठिनपुद्गलात्मिकायाः कथं सचेतनत्वमिति चेन्नैवं उच्यते । यथाऽस्थि शरीरानुगतं सचेतनं कठिनं च दृष्टमेवं जीवानुगतं पृथिवीशरीरमपीति । अथवा पृथिव्यप्तेजोवायुवनस्पतयो जीवशरीराणि छेद्यभेद्योक्षिप्यभोग्यप्रेयरसनीयस्पृश्यद्रव्यत्वात् सास्नाविषाणादिसडातवत् । न हि पृथिव्यादीनां छेद्यत्वादि दृष्टमपढोतुं शक्यम् । नच पृथिव्यादीनां जीवशरीरत्वमनिष्टं साध्यते सर्वपुद्गलद्रव्यस्य द्रव्यशरीरत्वाभ्युपगमाव, जीवसहितत्वं च विशेषः। अशस्त्रोपहतं पृथिव्यादिकं कदाचित्सचेतनं सङ्घातत्वात्पाणिपादसवातवत् । तदेवं कदाचित्किञ्चिदचेतनमपि, शस्त्रोपहतत्वात् पाण्यादिवः । देव । न चात्यन्तं तदचित्तमेवेति १ । अथ नाप्कायो जीवस्तल्लक्षणायोगात्मश्रवणादिवदिति चेन्नैवं हेतोरसिद्धत्वात् । तया हि-हस्तिनशरीरं कललावस्थायामधुनोत्पत्रस्य द्रवं सचेतनं च दृष्टमेवमप्कायिकस्यापि । यथा वाण्डके रसमात्रसमं जाताक्यक्मनभिव्यक्तचञ्चादिपनि
Jain Educationa l
For Personal & Private Use Only
Horary.org