________________
सानदाई जानानदाय मीन चास्ती
फलं व्यवस्थापनीयमिति ॥ अयोत्पादव्ययौव्ययुक्ताः पदार्थाः । ते चादीपमाव्योम समस्वभावाः । तत्र चैतन्यलक्षणः परिणामी ज्ञानादिधर्मभिन्नामिन्नःकर्ता साक्षागोक्ता स्वदेहपरिमाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवाँश्च जीवः । चैतन्यं साकारनिराकारोपयोगात्मकं लक्षणं स्वरूपं यस्यासौ चैतन्यलक्षणः । परिणमनं सुरनारकादिष्वपरापरपर्यायेषु गमनं प्रतिसमयमपरापरपर्यायेषु गमनं वा परिणामः स नित्यमस्यास्तीति परिणामीनाये ज्ञानदर्शनचारित्रसुखदुःखवीर्यभव्याभव्यत्वद्रव्यत्वप्रमेयत्वप्राणधारित्वक्रोधादिपरिणतत्वसंसारित्वसिद्धत्वपरवस्तुव्यात्तत्वादयः स्वपरपर्याया जीवस्य भवन्ति, तेभ्यो जीवो न भिन्नो नाप्यभिन्नः किं तु जात्यन्तरतया भिन्नाभिन्नः।यदि हि ज्ञानादिधर्मेभ्यो जीवो भिन्नः स्यात्तदाहं जानामि अहं पश्यामि अहं ज्ञाताऽहं द्रष्टाहं सुखितोऽहं भव्यश्चेत्याद्यभेदप्रतिभासो : न स्यादस्ति च सर्वप्राणिनांसोऽभेदप्रतिभासः।तथा यद्यभिन्नः स्यात्तदायं धर्मी एते धर्मा इति भेदबुद्धिर्न स्यादस्ति च सा । अथवा अभिन्नतायां ज्ञानादिसर्वधर्माणामैक्यं स्यादेकजीवाभिन्नत्वात् । तथा च मम ज्ञानं मम दर्शनं चास्तीत्यादिज्ञानादिमिथोभेदबुद्धिर्न स्यादस्ति च सा ततो ज्ञानादिधर्मेभ्यो भिन्नाभिन्न एवाभ्युपगन्तव्यः ३ । करोत्यदृष्टादिकमिति कर्ता ४ । साक्षादनुपचरितच्या भुते मुखादिकमिति साक्षाभोक्ता ५ । स्वोपात्तवपुर्व्यापकः स्वदेहपरिमाणः ६ । प्रतिक्षेत्रं पृथक् प्रतिशरीरं भिन्नः ७ । पुद्गलघटितकर्मपरतन्त्रः पौगालिकाऽदृष्टवान् जीवः प्राणभाक्, प्राणाश्च द्रव्यभावभेदाद् द्विभेदाः, तत्र द्रव्यप्राणाः पञ्चेन्द्रियत्रिविधवलोच्छासनिःश्वासायूरूपाः। भावप्राणास्तु ज्ञानदर्शनोपयोगरूपाः । एभिः प्राणैरजीवद् जीवति जीविष्यति चेति जीवः आत्मा प्रत्यक्षादिगम्यः गुणप्रत्यक्षत्वात् । प्रयोगश्च । आत्मा प्रत्यक्षः स्मृतिजिज्ञासाचिकीजिगमिपासंशयविज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टो यथा घट इति प्रत्यक्षगुणश्च जीवः तस्मात्प्रत्यक्षः । अनुमानगम्योऽपि । यथा जीवच्छरीरं प्रयत्नवताधिष्ठितमिच्छानुविधायिक्रियाश्रयत्वात्
क
Jain Educatioll
ational
For Personal & Private Use Only
Minelibrary.org