SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ शुभवि.क. ॥८॥ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादि ६ । क्रियाश्रयणभेदप्ररुपणमेवम्भूतः शब्दानां । स्याद्वादमास्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नवभूतः यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते । क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः । यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्पटवादित्यादि ७ । अत्र संग्रहश्लोकाः । “ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः । १ । सद्प तानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृहून् सङ्ग्रहो। मतः । २ । व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः । ३ । तत्र मूत्रनीति: स्याद् बुद्धिपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावस्थितिवियोगतः । ४ । विरोधिलिङ्गसंख्यादिभेदाद्भिन्नस्वभावताम्।तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते । ५ । तथाविधस्य तस्यापि वस्तुनः क्षणवर्त्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् । ६ । एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते । ७।" एतेषु प्रथमे चत्वारोऽयनिरूपणप्रवणत्वादर्थनयाः।शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः।पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः।तत्र सन्मात्रगोचरसङ्गाहान्नैगमो भावाभावभूमिकत्वाद् बहुविषयः।सद्विशेषप्रकाशकाद् व्यवहारात्सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः । वर्तमानविषयाजुसूत्राद व्यवहारात्रिकालविषयावलम्बित्वाद्बहुविषयः । कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाजुमूत्रस्तविपरीतवेदकत्वान्महार्थः । प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दस्तद्विपर्ययानुयायित्वात्मभूताविषयः । प्रतिक्रियं विभिन्नमर्थ प्रतिजाननादेवंभूतात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः । नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिनिषेधाभ्या सप्तभङ्गीमनुव्रजति । प्रमाणवदस्य Jain Educationational For Personal & Private Use Only M ainelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy