________________
95
१६ एतद् दृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः । सञ्जयतेऽस्य परमा परमानन्द इति यामाहुः॥ १॥ सैषाऽविद्यारहिताऽवस्था परमात्मशब्दवाच्येति । एषैव च विज्ञेया रागादिविवर्जिता तथता ॥ २ ॥ वैशेषिकगुणरहितः पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराप्राप्तेः ॥३॥ एवं पशुत्वविगमो दुःखान्तो भूतविगम इत्यादि । अन्यदपि तन्त्रसिद्धं सर्वमवस्थान्तरेऽत्रैव ॥ ४ ॥ परिणामिन्यात्मनि सति तत्तद्ध्वनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वेऽविद्यादौ वस्तुसत्येव ॥ ५॥ तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् । परिभावनीयमेतद्विद्वद्धिस्तत्त्वदृष्टयोच्चैः ॥ ६ ॥ पुरुषाद्वैतं तु यदा भवति विशिष्टमथ च बोधमात्रं वा । भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः ? ७ अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥ ८ ॥ परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । तन्मात्र एव तत्त्वे भवभवविगमौ कथं युक्तौ ॥९ परिकल्पना (ल्पिता) पि चैषा हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः तस्माद्यथोक्तमेतत् त्रितयं नियमेन धीधनैः पुम्भिः । भवभवविगमनिबन्धनमालोच्यं शान्तचेतोभिः ११
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org